SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ पथानां दृष्टमा दन्तादिदर्शनात सात चतुष्कं रथ्याना परिमण्डिता निव्वुयसुहातः सुखैच त्रिकं यत्र रथ्याकविधद्रव्याणि भवनदेवकुलादीनां गोपुराणि-प्राकारद्वाराणि तोरणानि-प्रतीतानि उन्नतानि-गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ता| विविक्ता राजमार्गा यस्यां सा तथा ततः पदद्वयस्य कर्मधारयः, 'छेयायरियरइयदढफलिहइंदकीला' छेकेन-निपुणेनाचार्येणशिल्पिना रचितो दृढो-बलवान् परिघः-अर्गला इन्द्रकीलश्च-गोपुरावयवविशेषो यस्यां सा तथा 'विवणिवणिछेत्तसिप्पियाइपणनिव्वुयसुहा' विपणीनां-वणिपथानां हट्टमार्गाणां वणिजांच-वाणिजकानां क्षेत्रं-स्थानं या सा तथा शिल्पिभिः कुम्भकारादिभिराकीर्णा सुनितैः सुखैश्च-सुखिभिर्या राजदन्तादिदर्शनात् सा तथा 'सिंघाडगतिगचउक्कचच्चरपणियावणविविहवत्थुपरिमंडिया' शृङ्गाटक-त्रिकोणं स्थानं त्रिकं यत्र रथ्यात्रयं मिलति चतुष्कं-रथ्याचतुष्कमीलकः चखरं-बहुरथ्यापातस्थान पणितानि-भाण्डानि तत्प्रधाना आपणा-हट्टाः विविधवस्तूनि-अनेकविधद्रव्याणि एभिः परिमण्डिता या सा तथा 'सुरम्मा' अतिरमणीया 'नरवइपविइन्नमहिवइपहा' नरपतिना-राज्ञा प्रविकीर्णो-गमनागमनाभ्यां व्याप्तः महीपतिपथो-राजमार्गों यस्यां सा तथा, अथवा नरपतिना प्रविकीर्गा-विक्षिप्ता निरस्ता शेषमहीपतीनां प्रभा यस्यां सा तथा, "अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीआइन्नजाणजुग्गा' अनेकैर्वरतुरगैर्मत्तकुञ्जरैः 'रहपयर'त्ति रथनिकरैः शिबिकाभिः स्यन्दमानाभिराकीर्णा-व्याता यानयुग्यैश्च या सा तथा, तत्र शिविका:-कूटाकारेण छादिता जम्पानविशेषा स्यन्दमानिकाःपुरुषप्रमाणजम्पानविशेषाः यानानि-शकटादीनि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति, विमउलनवनलिणिसोभियजला विमुकुलाभिः-विकसितकमलाभिर्नवाभिनलिनीभिः-पद्मिनीभिः शोभितानि जलानि यस्यां सा तथा, 'पंडुरवरभवणसन्निमहिया' पाण्डुरैः-सुधाधवलैर्वरभवनैः-प्रासादैः सम्यक् नितरां महितेव महिता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy