Book Title: Gnatadharmkathangasutram Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 5
________________ 'गोमहिसगवेलगप्पभूया' गवादयः प्रभूताः-प्रचुरा यस्यामिति वाक्यं गवेलका-उरभ्राः 'आयारवंतचेइयजुवइविविहसण्णिविट्ठबहुला' आकारवन्ति-सुन्दराकाराणि यानि चैत्यानि-देवतायतनानि युवतीनां च-तरुणीनां पण्यतरुणीमामिति हृदयं यानि विविधानि संनिविष्टानि-संनिवेशनानि पाटकास्तानि बहुलानि-बहूनि यस्यां सा तथा 'उक्कोडियगायगंठिमेयभडतकरखंडरक्खरहिया' उक्कोडा उत्कोटा-लश्चेत्यर्थः तया ये व्यवहरन्ति ते उत्कोटिकाः गात्रान्-मनुष्यशरीरावयव विशेषान् कट्यादेः सकाशाद्वन्थिकार्षापणादिपोहलिका भिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदा भटाः-चारभटा बलात्कारप्रवृत्तयः तस्कराः-तदेव-चौर्य कुर्वन्तीत्येवंशीलास्तस्कराः खण्डरक्षा-दण्डपाशिकाः शुल्कपाला वा एभी रहिता या सा तथा, अनेन| तत्रोपद्रवकारिणामभावमाह, 'खेमा' अशिवाभावात् 'निरुवहुवा' निरुपद्रुता अविद्यमानराजादिकृतोपद्रवेत्यर्थः, 'सुभिक्षा' सुष्टु-मनोज्ञा प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा, अत एव पाखण्डिकानां गृहस्थानां च 'वीसत्थसुहावासा' विश्वस्तानां निर्भयानामनुत्सुकानां वा सुखः-सुखस्वरूपः शुभो वा आवासो यस्यां सा तथा, 'अणेगकोडीकोटुंबियाइण्णनिव्वुयसुहा' अनेकाः कोटयो द्रव्यसंख्यायां खरूपपरिमाणे वा येषां ते अनेककोटयः तैः कौटुम्बिकैः-कुटुम्बिभिश्चाकीणों|संकुला या सा तथा सा चासौ निवृता च-संतुष्टजनयोगात् संतोषवतीति कर्मधारयोऽत एव सा चासौ सुखा च शुभा च वेति कर्मधारयः, 'नडनदृगजल्लमल्लमुट्टियवेलंबगकहकपवकलासकआइक्खयलंखमंखतूणइल्लतुंबवीणियअणेगतालाचराणुचरिया' नटा-नाटकानां नाटयितारो नर्तका-ये नृत्यन्ति अंकोल्ला इत्येके जल्ला-वरत्राखेलकाः राज्ञः स्तोत्रपा-191 ठका इत्यन्ये मल्ला:-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति विडम्बका-विपकाः कथका:-प्रतीताः प्लवका-ये dain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 510