Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 3
________________ अहम् । नवाङ्गीवृत्तिकारकश्रीमदभयदेवसूरिवरविहितवृत्तियुतं गणभृत्पादप्रणीतं श्रीज्ञाताधर्मकथाङ्गम् । ॥ नखा श्रीमन्महावीरं, प्रायोऽन्यग्रन्थवीक्षितः । ज्ञाताधर्मकथाङ्गस्यानुयोगः कश्चिदुच्यते ॥१॥ तत्र च फलमङ्गलादि चर्चः | स्थानान्तरादवसेयः, केवलमनुयोगद्वारविशेषस्योपक्रमस्य प्रतिभेदरूपप्रक्रान्तशास्त्रस्य वीरजिनवरेन्द्रापेक्षयाऽर्थतः आत्मागमत्वं | तच्छिष्यं तु पञ्चमगणधरं सुधर्मस्वामिनमाश्रित्यानन्तरागमख तच्छिष्यं च जम्बूस्वामिनमपेक्ष्य परम्परागमतां प्रतिपिपादयिषुः | अथवा अनुगमाख्यस्य तृतीयस्यानुयोगद्वारस्य भेदभूताया उपोद्घातनिर्युक्तेः प्रतिभेदभूतनिर्गमद्वारखभावं प्रस्तुतग्रन्थस्यार्थतो महावीरनिर्गतसमभिधित्सुः सूत्रकारः-'तेणं कालेण मित्यादिकमुपोद्घात ग्रन्थं तावदादावाह ॐ नमः सर्वज्ञाय । ते णं काले णं ते णं समए णं चंपानाम नयरी होत्था वण्णओ ॥ (सूत्रं १) तत्र योऽयं णशब्दः स वाक्यालङ्कारार्थः, ते इत्यत्र च य एकारः स प्राकृतशैलीप्रभवो यथा 'करेमि भंते !' इत्यादिषु, ततोऽयं वाक्यार्थो जातः-तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभूवेति, अधिकरणे चेयं सप्तमी, अथ कालसमययोः कः प्रति-| ज्ञा.ध. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 510