SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ 'गोमहिसगवेलगप्पभूया' गवादयः प्रभूताः-प्रचुरा यस्यामिति वाक्यं गवेलका-उरभ्राः 'आयारवंतचेइयजुवइविविहसण्णिविट्ठबहुला' आकारवन्ति-सुन्दराकाराणि यानि चैत्यानि-देवतायतनानि युवतीनां च-तरुणीनां पण्यतरुणीमामिति हृदयं यानि विविधानि संनिविष्टानि-संनिवेशनानि पाटकास्तानि बहुलानि-बहूनि यस्यां सा तथा 'उक्कोडियगायगंठिमेयभडतकरखंडरक्खरहिया' उक्कोडा उत्कोटा-लश्चेत्यर्थः तया ये व्यवहरन्ति ते उत्कोटिकाः गात्रान्-मनुष्यशरीरावयव विशेषान् कट्यादेः सकाशाद्वन्थिकार्षापणादिपोहलिका भिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदा भटाः-चारभटा बलात्कारप्रवृत्तयः तस्कराः-तदेव-चौर्य कुर्वन्तीत्येवंशीलास्तस्कराः खण्डरक्षा-दण्डपाशिकाः शुल्कपाला वा एभी रहिता या सा तथा, अनेन| तत्रोपद्रवकारिणामभावमाह, 'खेमा' अशिवाभावात् 'निरुवहुवा' निरुपद्रुता अविद्यमानराजादिकृतोपद्रवेत्यर्थः, 'सुभिक्षा' सुष्टु-मनोज्ञा प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा, अत एव पाखण्डिकानां गृहस्थानां च 'वीसत्थसुहावासा' विश्वस्तानां निर्भयानामनुत्सुकानां वा सुखः-सुखस्वरूपः शुभो वा आवासो यस्यां सा तथा, 'अणेगकोडीकोटुंबियाइण्णनिव्वुयसुहा' अनेकाः कोटयो द्रव्यसंख्यायां खरूपपरिमाणे वा येषां ते अनेककोटयः तैः कौटुम्बिकैः-कुटुम्बिभिश्चाकीणों|संकुला या सा तथा सा चासौ निवृता च-संतुष्टजनयोगात् संतोषवतीति कर्मधारयोऽत एव सा चासौ सुखा च शुभा च वेति कर्मधारयः, 'नडनदृगजल्लमल्लमुट्टियवेलंबगकहकपवकलासकआइक्खयलंखमंखतूणइल्लतुंबवीणियअणेगतालाचराणुचरिया' नटा-नाटकानां नाटयितारो नर्तका-ये नृत्यन्ति अंकोल्ला इत्येके जल्ला-वरत्राखेलकाः राज्ञः स्तोत्रपा-191 ठका इत्यन्ये मल्ला:-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति विडम्बका-विपकाः कथका:-प्रतीताः प्लवका-ये dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy