________________
ज्ञाताधर्मकथाङ्गम्. ॥ १॥
विशेषः १, उच्यते, काल इति सामान्यकालः अवसर्पिण्याश्चतुर्थविभागलक्षणः समयस्तु तद्विशेषो यत्र सा नगरी स राजा सुधर्म्मस्वामी च बभूव, अथवा तृतीयैवेयं, ततस्तेन कालेन - अवसर्पिणीचतुर्थारकलक्षणेन हेतुभूतेन तेन समयेन - तद्विशेषभूतेन हेतुना 'चंपा नाम नयरी होत्थ'त्ति अभवत् आसीदित्यर्थः ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले ?, तत्कथमुक्तमासीदिति १, उच्यते, अवसर्पिणीत्वात् कालस्य वर्णकग्रन्थवर्णित विभूतियुक्ता तदानीमासीद् इदानीं नास्तीति 'वण्णओ'त्ति चम्पानगर्या वर्णकग्रन्थोऽत्रावसरे वाच्यः, स चायं - 'ऋद्धत्थिमियसमिद्धा' ऋद्धा-भवनादिभिर्वृद्धिमुपगता स्तिमिता-भयवर्जितत्वेन स्थिरा समृद्धा - धनधान्यादियुक्ता ततः पदत्रयस्य कर्मधारयः 'पमुइयजणजाणवया' प्रमुदिताः प्रमोदकारणवस्तूनां सद्भावाना :- नगरी वास्तव्यलोका जानपदाश्च - जनपदभवास्तत्रायाताः सन्तो यस्यां सा प्रमुदितजनजानपदा 'आइण्णजणमगुस्सा' मनुष्यजनेनाकीर्णा - संकीर्णा, मनुष्यजनाकीर्णेति वाच्ये राजदन्तादिदर्शनादाकीर्ण जनमनुष्येत्युक्तं, 'हलसयसहस्ससंकिट्ठविट्ठलट्ठपन्नत्तसेउसीमा' हलानां - लाङ्गलानां शतैः सहस्रैश्च शतसहस्रैर्वा - लक्षैः संकृष्टा - विलिखिता विकृष्टं - दूरं यावदविकृष्टा वा आसन्ना लष्टा - मनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात् 'पण्णत्ते 'ति योग्या कृता बीजवपनस्य सेतुसीमा - मार्गसीमा यस्याः सा तथा, अथवा संकृष्टादिविशेषणानि सेतूनि - कुल्याजलसेक्यक्षेत्राणि सीमासु यस्याः सा तथा, अनेन तज्जनपदस्य लोक बाहुल्य क्षेत्रबाहुल्यं चोक्तं 'कुक्कुडसंडेयगामपउरा' कुक्कुटाः - ताम्रचूडा पाण्डेयाः षण्ढपुत्रकाः षण्ठा एव तेषां ग्रामा:- समूहास्ते प्रचुरा:- प्रभूता यस्यां सा तथा अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रीडार्थं कुक्कुटान् पोषयति षण्डांश्च करोतीति, 'उच्छुजवसालिकलिया' अनेन च जनप्रमोदकारणमुक्तं, नह्येवंप्रकारवस्त्वभावेन प्रमोदो जनस्य स्यादिति,
Jain Education International
For Personal & Private Use Only
१ उत्क्षिसाध्य० चम्पावर्णनं सू. १
॥ १ ॥
www.jainelibrary.org