Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 5
________________ सम्पादकीयं निवेदनम् । विदाइकुर्वन्तु सज्जनाः, यदुताधोपदीक्रियते श्रीमतां करकमलेषु तपोगच्छगगनाङ्गणगभस्तिमालिसरिपुरन्दरश्रीदेवेन्द्रसूरिसूत्रितविस्तृतव्याख्योपेतस्य आचार्यप्रवरश्रीशान्तिमूरिसन्हब्धस्य धर्मरत्नाख्यप्रकरणस्य प्रथमो विभागः । एतद्न्थकादिपरिचयं वयं यथाशक्यमेतद्ग्रन्थस्य द्वितीयविभागस्य प्रकाशनावसर एवोल्लिखिष्यामः । सम्पत्येतावदेव तावनिवेदयामः यत्-ग्रन्थस्यास्य सम्पादनसमये पुस्तकयुग्ममासादितमस्माभिः । तत्रैकं तपागच्छान्तर्गतसंविग्नशाखीयाद्याचार्यश्रीमद्विजयानन्दररिपट्टप्रभासनभास्करोपमानाचार्यवरश्रीविजयवल्लभसूरिपशिष्यप्रज्ञांशपदधारकमहाराजश्रीउमङ्गविजयान्तिषन्मुनिश्रीचरणविजयसकाशादासादितम् । द्वितीयं पुनरणहिल्लपुरपत्तनस्थतपागच्छीयभाण्डागारान्तर्गतं श्रेष्ठिवर्यश्रीमलुकचन्द्रद्वारा संपाप्तम् । प्रथमं तावदतीव शुद्धं प्राचीनं सुवाच्यसुन्दरवर्णावल्युपेतं च, द्वितीयं पुनः शुद्धप्रायं प्राचीनं सुवाच्यसुन्दरतमलिपिविभूषितमेकतश्चाखुभक्षिताक्षरम् । सविशेषमेतत्प्रतियुगलपरिचयः प्रकाशयिष्यमाणापरविभागे दास्यते । एतत्प्रतिकृतियुगलाधारेण सावधानतया संशोधितमिदं विस्तृतव्याख्योपेतं प्रकरणमिति । किञ्च-विभागस्यास्य चतुष्पश्चाशत् पत्राणि मुद्रितानि शारदामुद्रणालयादन्यत्र, अपरं च तत्पत्राद्यप्रतिकृतिरपि (ग्रुफपत्राणि) नास्मदन्तिकं व्यवस्थिततया प्रेषितेति मुद्रायन्त्र-ग्रुफपत्रानवलोकनादिकारणतस्तावदंशेऽशुद्धिभूयस्त्वं वरीवृत्यते। किन्तु ग्रन्थमकाशनकारकमुनिवराधैर्येण एतच्छुद्धिपत्रं वयमस्य द्वितीयविभागेऽन्तर्भावयिष्याम इति भद्रम् । सम्पादकः Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 340