________________
सम्पादकीयं निवेदनम् । विदाइकुर्वन्तु सज्जनाः, यदुताधोपदीक्रियते श्रीमतां करकमलेषु तपोगच्छगगनाङ्गणगभस्तिमालिसरिपुरन्दरश्रीदेवेन्द्रसूरिसूत्रितविस्तृतव्याख्योपेतस्य आचार्यप्रवरश्रीशान्तिमूरिसन्हब्धस्य धर्मरत्नाख्यप्रकरणस्य प्रथमो विभागः । एतद्न्थकादिपरिचयं वयं यथाशक्यमेतद्ग्रन्थस्य द्वितीयविभागस्य प्रकाशनावसर एवोल्लिखिष्यामः । सम्पत्येतावदेव तावनिवेदयामः यत्-ग्रन्थस्यास्य सम्पादनसमये पुस्तकयुग्ममासादितमस्माभिः । तत्रैकं तपागच्छान्तर्गतसंविग्नशाखीयाद्याचार्यश्रीमद्विजयानन्दररिपट्टप्रभासनभास्करोपमानाचार्यवरश्रीविजयवल्लभसूरिपशिष्यप्रज्ञांशपदधारकमहाराजश्रीउमङ्गविजयान्तिषन्मुनिश्रीचरणविजयसकाशादासादितम् । द्वितीयं पुनरणहिल्लपुरपत्तनस्थतपागच्छीयभाण्डागारान्तर्गतं श्रेष्ठिवर्यश्रीमलुकचन्द्रद्वारा संपाप्तम् । प्रथमं तावदतीव शुद्धं प्राचीनं सुवाच्यसुन्दरवर्णावल्युपेतं च, द्वितीयं पुनः शुद्धप्रायं प्राचीनं सुवाच्यसुन्दरतमलिपिविभूषितमेकतश्चाखुभक्षिताक्षरम् । सविशेषमेतत्प्रतियुगलपरिचयः प्रकाशयिष्यमाणापरविभागे दास्यते । एतत्प्रतिकृतियुगलाधारेण सावधानतया संशोधितमिदं विस्तृतव्याख्योपेतं प्रकरणमिति ।
किञ्च-विभागस्यास्य चतुष्पश्चाशत् पत्राणि मुद्रितानि शारदामुद्रणालयादन्यत्र, अपरं च तत्पत्राद्यप्रतिकृतिरपि (ग्रुफपत्राणि) नास्मदन्तिकं व्यवस्थिततया प्रेषितेति मुद्रायन्त्र-ग्रुफपत्रानवलोकनादिकारणतस्तावदंशेऽशुद्धिभूयस्त्वं वरीवृत्यते। किन्तु ग्रन्थमकाशनकारकमुनिवराधैर्येण एतच्छुद्धिपत्रं वयमस्य द्वितीयविभागेऽन्तर्भावयिष्याम इति भद्रम् ।
सम्पादकः
Jain Education International
For Private Personal Use Only
www.jainelibrary.org