Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 374
________________ महा. ॥१८७|| धर्म. अन्यदा राजपुत्रोऽसौ, क्रीडां कर्तुं वने गतः। सुमित्रैः सह चिक्रीड, विनोदैस्तत्र भूरिभिः ॥ ५९॥ इतश्च कोऽपि तत्रैको, दुष्टो देवः समागतः । अपहृत्य कुमारं तमुत्पत्य च गतोऽम्बरे ॥ १६० ॥ चन्द्रोदयो ब्रजन् व्योम्नि, चिन्तयामास चेतसि । कस्मादहं हृतः केन, दुष्टदेवेन किं कृतम् ? ॥ ६१ ॥ विमृश्य हृदि धैर्य च, धृत्वा चन्द्रोदयो जगौ । रे दुष्ट! त्वं न मां वेत्सि, गृहीत्वा किङ्करिष्यसि ? ॥२॥ धरन्कपालिवेषं स, देवोऽपीत्यवदत्तदा । अरे रे त्वइलिं कृत्वा, साधयिष्याम्यहं सुरीम् ॥ ६३ ॥ । वृषभाख्यगिरेः शृङ्गे, विश्वघोरास्ति या दरी । तन्मध्येऽस्ति विरूपाक्षी, विकटा व्यालवाहना ॥ ६४ ॥ मया सा साधिता शक्तिर्जापहोमौ कृतौ भृशम् । देवी तथापि नोऽनुष्यत्, दत्तः स्वप्नः परं मम ॥६५॥ द्वात्रिंशल्लक्षणोपेतं, नरं भो मम कल्पय । येनाहं तव वेगेन, पूरयामि समीहितम् ॥ ६६ ॥ स्वप्नं विचार्य भूपीठे, भ्रमामि नरहेतवे । सर्वलक्षणसंपूर्णो, दृष्टस्त्वं जगृहे मया ॥ ६७ ॥ तदा चन्द्रोदयो दध्यौ, चेत्करिष्यसि महलिम् । तर्हि मे जीवितं धिर धिग्, वधोऽयं पशुवत् यतः॥८॥ धृत्वा धैर्य ततश्चित्ते, स्मृत्वा पञ्चनमस्कृतिम् । मुष्टिना प्रहतस्तेन, कोऽप्ययं योगिरूपभृत् ॥ ६९ ॥ ॥१८७॥ O JainEducation For Private 8 Personal Use Only w.jainelibrary.org A tional

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434