Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 418
________________ धर्म-सा प्रोचे वत्स ! सप्तापि, विद्याधरसुता इमाः । आसां वरकृते पृष्टो, मया नैमित्तिकोऽन्यदा ॥ २३०॥ महा. ॥२०९॥ अत्रस्थानां हि सप्तानां, वराप्तिस्तेन भाषिता । इहानीता मया तस्माद् , यूयमप्यागता वराः ॥३१॥ उद्वाह्येमाः सुखं भोगा, भुज्यन्तां पुण्यसञ्चिताः। सौधापवरका रम्या, सौरभ्यद्रव्यवासिताः ॥३२॥ हंसतूलीपरिच्छिन्ना, पल्यङ्का हृदयंगमाः । चित्रशाला इमा वत्सा !, वातायनमनोहराः ॥ ३३ ॥ अमी सप्त तुरङ्गाश्च, मनोवेगानुगामिनः । मुक्त्वा पूर्वदिशं यूयं, विचरध्वं यदृच्छया ॥ ३४॥ कृतोद्वाहाः समन्ताभिस्तेऽनङ्गसुखलालसाः । रमन्ते रङ्गशालासु, दोगुन्दुकसुरा इव ॥ ३५ ॥ कदा चक्रुजलक्रीडां, पुष्पावचयमुत्तमम् । बद्धदोलाश्च खेलन्ति, चम्पकद्रुमशाखिषु ॥ ३६ ॥ पूर्वा निवारिता रन्तुं, कारणं किमहो महत् ? । मिथस्ते विमृशन्त्येवं, रक्ष्यमाणे स्पृहा भवेत् ॥ ३७॥ एकदा तुरगारू ढा, गताः पूर्वदिशं प्रगे । आयोजनं नृशीषैश्च, व्याप्तां भूमि व्यलोकयन् ॥ ३८॥ ॥२०९॥ परस्परं प्रजल्पन्ति, किमेतदद्भुतं क्षितौ। न दृष्टं न श्रुतं क्वापि ?, कस्याग्रे कथ्यतेऽथवा ? ॥ ३९॥ अथाश्वखुरघातेन, हता तुंब्यहसद्रयात् । अरे तुरङ्गमा रामाः, पूर्वमस्माभिरादृताः ॥ २४० ॥ Jain Education For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434