Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 423
________________ मन्त्रयन्त्रप्रयोगैः स, शाकिनीनां कदर्थकः । मण्डलं मण्डते यत्र, गायनास्तत्र षण्नराः ॥ ८४ ॥ एकदा मुनिनैकेन, धर्ममार्गेण बोधिताः । चिरं धर्मरता अन्ते, कृतसंलेखना मृताः ॥ ८५ ॥ विप्रो मृत्वाऽभवत् सूरः, षडेते मण्डलाधिपाः । कर्मणः पूर्वभवजात्, पतिताः शाकिनीगृहे ॥८६॥ पश्चायद्विहितो धर्मस्तस्मात्त्वं सूरभूपतिः। पूर्वाचीण हि यत्कर्म, तद्भोज्यं बलवान् विधिः॥८॥ श्रुत्वा पूर्वभवं स्वकीयमनघं प्राप्ताश्च जातिस्मृति, पुत्रान्यस्य निजे पदे सुचरणं सम्प्राप्य नाकं गताः।। तद्भो भव्यजना! मनागपि कदा पुण्ये प्रमादो नहि, कार्यों येन सदाभवन्ति सुलभाःस्वर्गापवर्गश्रियः८८ इति पुण्योपदेशे धृष्टकनरकथा । अहो उत्तमसत्त्वानां, धर्म एव महाधनम् । सञ्चयन्ति सदा दक्षास्तमेव निश्चलं भुवि ॥ ८९॥ जननी जनको भ्राता, पुत्रो मित्रं कलत्रमितरो वा । दूरीभवन्ति निधने, जीवस्य शुभाशुभं शरणम् २९०॥ गालोमात गललामचिनायो। थन्त्यावशायामपिनटकरणीयंन करणीयम ॥२१॥ न करणायमूर॥ इत्थं निशम्य पुण्योपदेशनां लघुकर्मकाः । प्रबुद्धास्तत्र चारित्रं, गृह्णन्ति स्म जितस्मराः ॥ ९२ ॥ Jain Education a lional For Private Personal Use Only

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434