Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 404
________________ धर्म. ॥२०२॥ | दिनान् कति गौरवेण, संस्थाप्य दशमे दिने । तेनानन्दपुरे प्रैषि, सोऽनेकखेचरान्वितः ॥ ७६ ॥ बन्धुमत्या समं तत्रागतं ज्ञात्वा कुमारकम् । प्रवेशः कारितस्तस्य, नगर्यां भूभुजोत्सवात् ॥ ७७ ॥ राजोचे किं वर्णयामि, ज्ञानं वा ते पराक्रमम् ? । अज्ञानात् खेचराद्येन, वालिताऽसौ सुता मम ॥ ७८ ॥ राज्ञा तं सद्वरं ज्ञात्वा सुता तस्य विवाहिता । समयं गमयामास, सुखेन स कुमारराट् ॥ ७९ ॥ इतश्च पुष्पभद्राख्ये, पुरे श्रीपुष्पचूलराट् । ज्ञात्वा क्वचिद्रतं पुत्रं, हृदि दुःखं महद्दधौ ॥ ८० ॥ सुतस्यान्वेषणे राज्ञा, प्रेषिता निजपुरुषाः । मुस्ते पृथिवीपीठे, देशग्रामपुरादिषु ॥ ८१ ॥ तत्र ज्ञातः स तैर्यस्मात्, तद्गुणैर्वासिता मही । भाग्यादिसद्गुणो मर्त्यः, प्रच्छन्नः किं हि तिष्ठति ? ॥ ८२ ॥ | चरेभ्यस्तत्र विज्ञाय, पुत्रं राज्ञाऽथ प्रेषिताः । तस्याह्नानाय मन्त्रीशास्ते चानन्दपुरे गताः ॥ ८३ ॥ तदानन्द पुरेशेन, सूरसिंहेन भूभुजा | गंतुकामाय जामात्रे, स्वीयं राज्यार्द्धमर्पितम् ॥ ८४ ॥ गजा दशसहस्त्राश्च, लक्षसङ्ख्यास्तुरङ्गमाः । षट्सहस्रा रथा दत्ताः, पञ्चलक्षणि पायकाः ॥ ८५ ॥ | भाण्डागारार्द्धवित्तं च दत्त्वा भूपतिना ततः । सुतासंयुक्तयामाता, प्रेषितोऽथ स्वके पुरे ॥ ८६ ॥ Jain Educationtional For Private & Personal Use Only महा. ॥२०२॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434