Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
म
॥२०३॥
तथाहि-भरतेऽवन्तिदेशेऽस्ति, धारानाम्नी वरा पुरी। यां निरीक्ष्यालका गवं, सर्वं त्यजति तत्क्षणात९८|| महा. तत्रास्ति सधनो राजपुत्रः सूरो बलोद्धतः। धीरो धीमान गुणाढ्यश्च, दाता भोक्ता भयोज्झितः॥९९॥ तत्प्रिया चतुरा तन्वी, गूढमन्त्रा मदोद्धुरा । कटुवाक्यैर्निजं नाथं, सा दूमयति कोपना ॥ १० ॥ सूरोऽथ चिन्तयामास, किं भार्यया तया मम ? । त्यजेद्दष्टमति भार्थी, विद्यां विघ्नप्रदां पुमान् ॥ १॥ इति मत्वा द्वितीयाय, प्रियायै प्रयतोऽन्वहम् । विलोकयति स ग्राम, नगरं नगरं प्रति ॥ २॥ अवन्त्यामस्ति वृद्धका, यौवनस्थसुतान्विता । प्रार्थिता तत्सुता तेन, भव्यं वदति सा परम् ॥ ३॥ मयुक्ता सुन्दरी पुत्री, तव गेहं समेष्यति । प्रतिपन्नं च सूरेण, कामातः किं करोति न ? ॥४॥ यतः-दिवा पश्यति नो घूकः, काको नक्तं न पश्यति । अपूर्वः कोऽपि कामान्धो, दिवानक्तं न पश्यति॥५॥ सपत्नीभावतः पूर्वा, कलहायति दुःखरम् । अश्रान्तं कलहं ज्ञात्वा, पृथक् गेहेषु मोचिता ॥६॥ ॥२०॥ चतुरा सुन्दरीगेहे, गत्वा गालीददाति सा । अन्योऽन्यं ते मदोन्मत्ते, मत्सरं हृदि बिभ्रतुः ॥ ७ ॥ दन्तादंति पदापादि, मुष्टामुष्टि भुजाभुजि । युध्येते मत्सराक्रान्ते, मुण्डामुण्डि नखानखि ॥ ८ ॥
000000000000000000000000000000000000
Jain Education
nion
For Private Personel Use Only
Raw.jainelibrary.org

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434