________________
म
॥२०३॥
तथाहि-भरतेऽवन्तिदेशेऽस्ति, धारानाम्नी वरा पुरी। यां निरीक्ष्यालका गवं, सर्वं त्यजति तत्क्षणात९८|| महा. तत्रास्ति सधनो राजपुत्रः सूरो बलोद्धतः। धीरो धीमान गुणाढ्यश्च, दाता भोक्ता भयोज्झितः॥९९॥ तत्प्रिया चतुरा तन्वी, गूढमन्त्रा मदोद्धुरा । कटुवाक्यैर्निजं नाथं, सा दूमयति कोपना ॥ १० ॥ सूरोऽथ चिन्तयामास, किं भार्यया तया मम ? । त्यजेद्दष्टमति भार्थी, विद्यां विघ्नप्रदां पुमान् ॥ १॥ इति मत्वा द्वितीयाय, प्रियायै प्रयतोऽन्वहम् । विलोकयति स ग्राम, नगरं नगरं प्रति ॥ २॥ अवन्त्यामस्ति वृद्धका, यौवनस्थसुतान्विता । प्रार्थिता तत्सुता तेन, भव्यं वदति सा परम् ॥ ३॥ मयुक्ता सुन्दरी पुत्री, तव गेहं समेष्यति । प्रतिपन्नं च सूरेण, कामातः किं करोति न ? ॥४॥ यतः-दिवा पश्यति नो घूकः, काको नक्तं न पश्यति । अपूर्वः कोऽपि कामान्धो, दिवानक्तं न पश्यति॥५॥ सपत्नीभावतः पूर्वा, कलहायति दुःखरम् । अश्रान्तं कलहं ज्ञात्वा, पृथक् गेहेषु मोचिता ॥६॥ ॥२०॥ चतुरा सुन्दरीगेहे, गत्वा गालीददाति सा । अन्योऽन्यं ते मदोन्मत्ते, मत्सरं हृदि बिभ्रतुः ॥ ७ ॥ दन्तादंति पदापादि, मुष्टामुष्टि भुजाभुजि । युध्येते मत्सराक्रान्ते, मुण्डामुण्डि नखानखि ॥ ८ ॥
000000000000000000000000000000000000
Jain Education
nion
For Private Personel Use Only
Raw.jainelibrary.org