Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 410
________________ ॥२०५॥ Jain Education I किं वृथा कथ्यते दुःखमसमर्थस्य देहिनः । दुर्बले मातृभुग्नौ वदश्रुमोक्षः परस्परम् ॥ ४२ ॥ | सा प्रोचे मेऽस्ति सामर्थ्य, कारणं तत् प्रकाशय । व्याधेर्विज्ञानहीनस्य, प्रतीकारक्रिया नहि ॥ ४३ ॥ तेनोक्तं मरणं भावि, षण्मासैर्मम तक्षकात् । पत्न्या वशीकृतः सोऽथ, करोत्येवं छलादपि ॥ ४४ ॥ मा भैषीः साऽऽह भद्रं ते, करिष्येऽहं सुतान्विता । स्वैरं भुङ्क्ष्व सुखं तिष्ठ, दुःशङ्कां हृदि मा कृथाः ४५ श्लाघीचकार शिल्पं न, पूर्वपत्न्या कदर्थितः । तथापि साऽऽह सुन्दर्य्या, मृत्युभीरुः स तिष्ठति ॥ ४६ ॥ | मात्रा पुत्र्याऽन्यदा गेहद्वारभित्योर्द्वयोरपि । लिखितौ बर्हिणौ रम्यौ, प्रत्यक्षाविव जङ्गमौ ॥ ४७ ॥ निरन्तरं शुचीभूय, वेदिका उपविश्य च । बर्हिणौ पूजयेते ते, ध्यानहोमपरायणे ॥ ४८ ॥ आगते दिवसे तस्मिन् प्रत्यक्षयमरूपिणीम् । मृत्युभीरुः प्रियां प्रोचे, मध्याह्ने मरणं ध्रुवम् ॥ ४९ ॥ साऽवदत् प्राणनाथ ! त्वं धीरो भूत्वा विलोकय । शक्तिसामर्थ्यमस्माकं, चित्रकृद्विघ्नवारकम् ॥ १५०॥ गृहं गोमययोगेन, कृत्वा रम्यं विशेषतः । स्थापयित्वासनं मध्ये, स्थापितः प्राणवल्लभः ॥ ५१ ॥ वाससी शुचिनी धृत्वा, करे कृत्वाऽक्षतानथ । उभे वेद्यां गते तावत्कृष्णसर्प ददर्श तु ॥ ५२ ॥ onal For Private & Personal Use Only मद्दा. ॥२०५॥ jainelibrary.org

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434