________________
॥२०५॥
Jain Education
I
किं वृथा कथ्यते दुःखमसमर्थस्य देहिनः । दुर्बले मातृभुग्नौ वदश्रुमोक्षः परस्परम् ॥ ४२ ॥ | सा प्रोचे मेऽस्ति सामर्थ्य, कारणं तत् प्रकाशय । व्याधेर्विज्ञानहीनस्य, प्रतीकारक्रिया नहि ॥ ४३ ॥ तेनोक्तं मरणं भावि, षण्मासैर्मम तक्षकात् । पत्न्या वशीकृतः सोऽथ, करोत्येवं छलादपि ॥ ४४ ॥ मा भैषीः साऽऽह भद्रं ते, करिष्येऽहं सुतान्विता । स्वैरं भुङ्क्ष्व सुखं तिष्ठ, दुःशङ्कां हृदि मा कृथाः ४५ श्लाघीचकार शिल्पं न, पूर्वपत्न्या कदर्थितः । तथापि साऽऽह सुन्दर्य्या, मृत्युभीरुः स तिष्ठति ॥ ४६ ॥ | मात्रा पुत्र्याऽन्यदा गेहद्वारभित्योर्द्वयोरपि । लिखितौ बर्हिणौ रम्यौ, प्रत्यक्षाविव जङ्गमौ ॥ ४७ ॥ निरन्तरं शुचीभूय, वेदिका उपविश्य च । बर्हिणौ पूजयेते ते, ध्यानहोमपरायणे ॥ ४८ ॥ आगते दिवसे तस्मिन् प्रत्यक्षयमरूपिणीम् । मृत्युभीरुः प्रियां प्रोचे, मध्याह्ने मरणं ध्रुवम् ॥ ४९ ॥ साऽवदत् प्राणनाथ ! त्वं धीरो भूत्वा विलोकय । शक्तिसामर्थ्यमस्माकं, चित्रकृद्विघ्नवारकम् ॥ १५०॥ गृहं गोमययोगेन, कृत्वा रम्यं विशेषतः । स्थापयित्वासनं मध्ये, स्थापितः प्राणवल्लभः ॥ ५१ ॥ वाससी शुचिनी धृत्वा, करे कृत्वाऽक्षतानथ । उभे वेद्यां गते तावत्कृष्णसर्प ददर्श तु ॥ ५२ ॥
onal
For Private & Personal Use Only
मद्दा.
॥२०५॥
jainelibrary.org