SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ सा चित्ते चिन्तयामास, चरितं ज्ञातवान् पतिः। उपायैरियाम्येनं, भिन्नस्नेहे कुतः सुखम् ? ॥ ३१॥ ततः स्नात्वाऽङ्गणे गत्वा, कृत्वा गोमयमण्डलम् । श्वेतवस्त्राङ्किता धूपनैवेद्याद्यमढौकयत् ॥३२॥ सद्गुग्गलगुटीरक्तकणवीरघृतान्वितैः । चकारैकाग्रचित्ता सा, होमं हुंकारभीषणा ॥ ३३ ॥ पर्य्यन्ताहुतिपर्यन्ते, प्रत्यक्षस्तक्षकोऽवदत् । भद्रे! किमर्थमाराद्धस्तुष्टोऽहं ते वरं वृणु ॥ ३४ ॥ सोचे भक्षय भर्तारं, परपत्नीरतं मम । तक्षकः कथयत्येवं, षण्मासांते मरिष्यति ॥ ३५ ॥ सरीसृपं विसृज्यैषा, स्वस्थाने चतुरा स्थिता । सर्वं विलोकयामास, सूरः कुड्यान्तरे स्थितः ॥ ३६॥ सोऽचिन्तयदहो स्त्रीणां, दुश्चरित्रं वचोऽतिगम् । यया विडम्वितः सूरः, श्वा खरो भरटोऽजनि ॥३७॥ यतः-स्रष्टा यंन्न सृजेत् सृष्टौ,हरो ध्याने न दृष्टवान् ।नोदरे वैष्णवे चास्ति,तत् कुर्वन्ति स्त्रियोऽदयाः ३० इति ध्यायन भयभ्रान्तो, हिंडोलारपुरे गतः । सशङ्कः सुन्दरीयुक्तो, भुंक्ते भोगान् दिवानिशम्॥३९॥ विविधैः प्रीणनोपायै स्यहास्यकलादिभिः । सुन्दरी प्रीणयत्येनं, सूरो हर्ष दधौ नहि ॥ १४० ॥ श्वश्वा रहो जामाता, पृष्टो दुःखस्य कारणम् । सोऽवदत् श्वधू किं मातर्दुःखं मे महितो(लो)दितम् ४१ Jain Education a l For Private Personal use only
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy