SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ॥२०४॥ Jain Education I दुष्टचूर्णप्रभावेण श्वानो भूत्वा निवर्त्तितः । बध्वा च तं दृढैर्वन्धैस्तताड चतुरा चिरम् ॥ १२० ॥ श्वा करालो बभूवैष, मुक्तश्च कृपया तया । शतव्रणसमाकीर्णः, पट्टकैः परिवेष्टितः ॥ २१ ॥ शनैः शनैः पटुर्भूत्वा मासान्ते पुनरब्रवीत् । याम्यहं सुन्दरीगेहे, पाथेयं प्रगुणीकुरु ॥ २२ ॥ तदा करम्बकं दुष्टं, दत्त्वाऽथ प्रेषितः तया । तन्नद्यां भोजनार्थं च निविष्टोऽथागमजटी ॥ २३ ॥ स प्रार्थयत्यहोरात्रद्वयमाहारवर्जितः । देहि भोज्यं तेन दत्तं भुक्त्वा स रासभोऽजनि ॥ २४ ॥ पूर्ववच्चतुरागेहं चचाल भरटः खरः । प्रियाकर्त्तव्यवीक्षार्थी, सूरोऽपि पृष्ठतो गतः ॥ २५ ॥ सा खरबन्धनैर्बद्धा, कशाघातैरपीडयत् । रारटीति भयाक्रान्तो भुग्नोऽस्मि घातजर्जरः ॥ २६ ॥ रे यासि सुन्दरीगेहं घातघातेत्यभर्त्सयत् । म्रियमाणं तदा दृष्ट्वा, मुक्तो दृष्टश्च योगिराट् ॥ २७ ॥ जटाभारभराक्रान्तो, डक्काडमरमंडितः । भस्मभूषा करालाक्षः, कौपीनकर्त्तिकान्वितः ॥ २८ ॥ लज्जिता चतुरा भीता, पतिता तस्य पादयोः । जटी वदति भद्रेऽयमाभानकस्त्वया कृतः ॥ २९ ॥ करंवं खादयेोहि, विडम्बं सहते हि सः । दत्त्वा द्रव्यं तथा भक्त्या, क्षमयित्वा विसज्जितः ॥ १३० ॥ For Private & Personal Use Only महा. 1120811 w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy