Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 405
________________ विद्याधरशतैः सेव्यमानो मार्गे पदे पदे । गीयमानश्च गन्धर्वैः स्तूयमानो महाबुधैः ॥ ८७ ॥ इत्थं महर्द्धियुक्तोऽसौ, पुष्पभद्रपुरे गतः । पुष्पचूलनरेन्द्रेण सुतस्यागमनं श्रुतम् ॥ ८८ ॥ सम्मुखी निजसेना च, प्रेषिता बहुमानतः । महामहोत्सवात्तस्य, प्रवेशः कारितः पुरे ॥ ८९ ॥ राजोचे वत्स ! मन्येऽहं तव देशान्तरे पुनः । यज्जातं गमनं नूनं तदेदृग्वृद्धिहेतवे ॥ ९० ॥ पुत्रपुण्योदयं वीक्ष्य, भूपतिस्तेन संयुतः । प्रकुर्व्वन् धर्मकर्माणि, गमयामास वासरान् ॥ ९९ ॥ श्रीमद्विमलबोधाख्यो, ज्ञानी तत्रागतोऽन्यदा । तद्वन्दनाय भूपालो, जगाम सपरिच्छदः ॥ ९२ ॥ तिस्रः प्रदक्षिणा दत्त्वा तं प्रणम्य मुनीश्वरम् । उपविश्य च सध्धर्मदेशनामशृणोदिति ॥ ९३ ॥ | भो भव्या ! भवपाथोधेः पारं पुण्यैरवाप्यते । तत् पुण्यं दुर्लभं लोके, सुखस्यैकनिबन्धनम् ॥ ९४ ॥ धर्मपराणां पुंसां जीवितमरणे उभे अपि श्रेष्ठे । इह जीवतां विवेकः सद्गतिगमनं मृतानां तु ॥९५॥ लांगल सहस्रभिन्ने, नास्ति धान्यं यथोपरे क्षेत्रे । तद्वज्जन्तूनामिह पुण्येन विना कुतः सौख्यम् ? ॥९६॥ | पुण्यप्रभावतो विघ्नश्रेणिर्विघटते नृणाम् । शाकिनीवृन्दमध्येऽपि, विजयी धृष्टको यथा ॥ ९७ ॥ Jain Educationational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434