Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 380
________________ धर्म. / दुष्प्रापं प्राप्य तत्सर्वे, चिन्तामणिसमं सदा । रक्षणीयं प्रयत्नेन, प्रमादाभिधतस्करात् ॥ २५॥ ॥१९०॥ इष्टं यद्यच्च संसारे, रम्यं चाप्यस्थिरं हि तत् । इत्थं ज्ञात्वा बुधैर्धर्मः, सेव्यो बलिनरेन्द्रवत् ॥२६॥ तथाहि-पश्चिमे श्रीविदेहेऽस्ति, विजयो गन्धिलावती। पुरी चन्द्रप्रभा तत्र, स्वर्गभूमिसमा सदा॥२७॥ अकलङ्कोऽभवत्तस्यामकलको महानृपः। चन्द्रवद्यः सदा सौम्यो, यस्य वाणी सुधासमा ॥ २८ ॥ सुदर्शनाऽभिधा भार्या, तस्यादर्शसमोज्ज्वला । बलिनामा तयोः पुत्रो, बालत्वे सबलो बुधः ॥ २९॥ विंशतिं पूर्वलक्षाणि, युवराज्ये स संस्थितः । चत्वारिंशत्पूर्वलक्षाः, पैत्र्यं राज्यमपालयत् ॥ २३० ॥ तदा श्रीसुव्रताचार्यसमीपे श्रावकव्रतम् । स जग्राह दिवारात्रौ, चक्रे सुकृतमुत्तमम् ॥ ३१ ॥ प्रासादप्रतिमादीनोद्धारश्रीसङ्घभक्तिभिः । रथयात्रादिकैः सोऽभूज्जैनधर्मप्रभावकः ॥ ३२ ॥ श्राद्धधर्मक्रियायुक्तः, सोऽन्यदा पक्षिकादिने । उपोषितः सर्वरात्रौ, कायोत्सर्गे स्थितः स्थिरः ॥३३॥ तृतीयप्रहरप्रान्ते, भावयन शुभभावनाम् । अनित्यतास्वरूपञ्च, सोऽपश्यत् सर्ववस्तुषु ॥ ३४ ॥ विद्युल्लताचला लक्ष्मीरायुदर्भाग्रबिन्दुवत् । गजकर्णचलं राज्यं, सङ्गमाः स्वप्नसन्निभाः ॥ ३५॥ ॥१९॥ Jain Educat i onal For Private Personal Use Only H ww.jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434