________________
धर्म. / दुष्प्रापं प्राप्य तत्सर्वे, चिन्तामणिसमं सदा । रक्षणीयं प्रयत्नेन, प्रमादाभिधतस्करात् ॥ २५॥ ॥१९०॥
इष्टं यद्यच्च संसारे, रम्यं चाप्यस्थिरं हि तत् । इत्थं ज्ञात्वा बुधैर्धर्मः, सेव्यो बलिनरेन्द्रवत् ॥२६॥ तथाहि-पश्चिमे श्रीविदेहेऽस्ति, विजयो गन्धिलावती। पुरी चन्द्रप्रभा तत्र, स्वर्गभूमिसमा सदा॥२७॥ अकलङ्कोऽभवत्तस्यामकलको महानृपः। चन्द्रवद्यः सदा सौम्यो, यस्य वाणी सुधासमा ॥ २८ ॥ सुदर्शनाऽभिधा भार्या, तस्यादर्शसमोज्ज्वला । बलिनामा तयोः पुत्रो, बालत्वे सबलो बुधः ॥ २९॥ विंशतिं पूर्वलक्षाणि, युवराज्ये स संस्थितः । चत्वारिंशत्पूर्वलक्षाः, पैत्र्यं राज्यमपालयत् ॥ २३० ॥ तदा श्रीसुव्रताचार्यसमीपे श्रावकव्रतम् । स जग्राह दिवारात्रौ, चक्रे सुकृतमुत्तमम् ॥ ३१ ॥ प्रासादप्रतिमादीनोद्धारश्रीसङ्घभक्तिभिः । रथयात्रादिकैः सोऽभूज्जैनधर्मप्रभावकः ॥ ३२ ॥ श्राद्धधर्मक्रियायुक्तः, सोऽन्यदा पक्षिकादिने । उपोषितः सर्वरात्रौ, कायोत्सर्गे स्थितः स्थिरः ॥३३॥ तृतीयप्रहरप्रान्ते, भावयन शुभभावनाम् । अनित्यतास्वरूपञ्च, सोऽपश्यत् सर्ववस्तुषु ॥ ३४ ॥ विद्युल्लताचला लक्ष्मीरायुदर्भाग्रबिन्दुवत् । गजकर्णचलं राज्यं, सङ्गमाः स्वप्नसन्निभाः ॥ ३५॥
॥१९॥
Jain Educat
i
onal
For Private Personal Use Only
H
ww.jainelibrary.org