SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ कस्य पुत्राः कलत्राणि, कस्य गेहं धनादिकम् । ममेत्यङ्गी वृथा कुर्यात्, संसारे कोऽपि कस्य न ॥३६॥ तथा-अहं ममेति संसारो, नाहं मम न निर्वृतिः । चतुर्भिरक्षरैर्बन्धः, पञ्चभिः परमं पदम् ॥ ३७॥ | यतः-अनित्यानि शरीराणि, विभवो नैव शाश्वतः। नित्यं सन्निहितो मृत्युः, कर्त्तव्यो धर्मसङ्ग्रहः॥३८॥ मुक्त्वा क्रोधं विरोधञ्च, सर्वसन्तापकारणम् । यदा शमसुधायुक्तस्तदा प्राप्नोति निवृतिम् ॥ ३९॥ इत्थं निःस्पृहवृत्त्या सोऽनित्यतां चिन्तयन् हृदि । सम्प्राप्तः क्षपक श्रेणिं, ज्ञानं सम्प्राप केवलम् ॥४०॥ गृहीत्वा देवतादत्तमुनिवेषं स केवली । सुवर्णाम्भोजसंस्थानश्चक्रे सध्धर्मदेशनाम् ॥ २४१ ॥ पृथिव्यां विहरन् सोऽथ, वहून जीवान् व्यबोधयत् । लोकैस्तदाऽस्य भुवनभानुनाम कृतं स्फुटम् ॥४२॥ || विजयेऽस्मिन् जयपुरनायकश्चन्द्रमौलिकः । अभूद्रूपः केवलिना, तस्याग्रे देशना कृता ॥ ४३ ॥ वैराग्यरससम्पूर्णा, स्वकथा कथिता तदा । श्रुत्वा स प्राप संवेगं, दीक्षां चापि गृहीतवान् ॥ ४४ ॥ स क्रमात् केवली जज्ञे, तौ द्वौ चाराध्य संयमम् । पूर्वकोटी निजं चायुः, प्रपाल्याथ शिवङ्गतौ॥४५॥ अस्मिन्नसारे संसारे, सारं किञ्चित् न विद्यते। एकः शान्त्यात्मको धर्मः, सारो यस्माद्भवेत् शिवम्॥४६॥ Jain Educatio n al For Private Personal Use Only Hw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy