SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ धर्म धर्मात् सिध्यति विश्वेऽर्थः, कामः सिध्यति चार्थतः। अतोऽर्थकामौ मोक्षोऽपि, सर्वे सिध्यन्ति धर्मतः४७/ ॥१९॥ इत्थं विज्ञाय भो भद्र !, सर्वथा कार्यसाधने । सेवनीयः सुचित्तेन, धर्म एव निरन्तरम् ॥ ४८॥ धर्मः सम्यक्त्वमूलोऽसौ, जिनो देवो मुनिर्गुरुः । धर्मो दयेति सम्यक्त्वमुक्तं तत्त्वं त्रयात्मकम्॥४९॥ इत्यादि देशनां श्रुत्वा, चन्द्रोदयकुमारराट् । शुद्धं सम्यक्त्वमूलं तं, श्राद्धधम्म गृहीतवान् ॥२५० ॥ जीवाजीवादितत्त्वानि, पृष्ट्वा स ज्ञातवान्पुनः । मिथ्यात्वस्य मतिं त्यक्त्वा, किञ्चिद्यावच्च पृच्छति ॥५१॥ अदृश्योऽभून्मुनिस्तावद्विस्मयात्तेन चिन्तितम् । मुनिमहोपकारी मे, धम्म प्रोक्त्वा गतः क्व सः?॥१२॥ एतस्मिन्समये तत्राकस्मात्सैन्यं समागतम् । वेष्टयित्वा भटैः शीघ्र, कुमारं प्रति भाषितम् ॥ ५३॥ रे त्वां समरविजयो, रोषेणात्र हनिष्यति । इति श्रुत्वा स गाथार्थ, स्मृत्वा धत्ते स्म धीरताम् ॥ ५४॥ सिंहनादं ततः कृत्वा, तत्सैन्यात् कस्यचिद्रथम् । गृहीत्वा तत्र चारुह्य, सङ्ग्रामे सम्मुखोऽभवत् ॥५५॥ स्थं सर्वायुधैः पूर्ण, गृहीतं कटकं हतम् । दृष्ट्वा भटा इति प्रोचुः, सामान्यो नैष मानवः॥ ५६ ॥ राजा समरविजयो, भग्नं दृष्ट्वा निजं बलम् । स्वयं डुढौके युध्धाय, गतश्चन्द्रोदयान्तिके ॥ ५७ ॥ ॥१९॥ Jain Education For Private & Personel Use Only Shainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy