________________
गर्वितोऽस्त्रप्रहारं स, यावन्मुञ्चति तावता । लघुलाघविकी विद्या, कृत्वा तेन धृतो द्रुतम् ॥ ५८ ॥ बध्धो जीवनसौ यावद्रथे संस्थापितो निजे । विनयात्समरस्तावत्, कुमारचरणेऽपतत् ॥ ५९॥ उत्पन्नदयया मुक्तस्तदा चन्द्रोदयेन सः । इतश्चागत्य कापि स्त्री, कुमारं प्रत्यदोऽवदत् ॥ २६० ॥ भो भद्र! शृणु मे वाक्यं, पुरे श्रीकुशवर्धने । राज्ञः कमलचन्द्रस्यामरसेनाऽस्ति सत्प्रिया ॥ ६१॥ भुवनश्रीस्तु तत्पुत्री, जिनधर्मेण भाविता । सा त्वदीयगुणान् श्रुत्वा, प्रतिज्ञामग्रहीदिति ॥ ६२॥ अस्मिन्जन्मनि मे भर्ता, चन्द्रोदयकुमारराट् । सहोदरा नरा अन्ये, ममासौ निश्चयः सदा ॥ ६३ ॥ असौ शैलपुराधीशः, समराद्विजयो नृपः । तां कन्यामन्यदा तस्याः, पितुः पार्थादयाचत ॥ ६४ ॥ प्रतिज्ञामिति विज्ञाय, न ददाति पिता सुताम् । समरस्तत्पुरोद्याने, ससैन्योऽथ समागतः ॥६५॥ गुप्तवृत्त्या स्थितस्तत्र, कन्या क्रीडार्थमागता । पाप्यसौ विलपन्ती तां, हृत्वा भूप इहागतः ॥ ६६ ॥ अत्रस्थं त्वां कुतो हेतोख़त्वाऽयं हन्तुमुद्यतः । कन्याधात्री त्वहं स्नेहात्तत्पृष्ठिं द्रुतमागता ॥ ६७ ॥ श्रुत्वा वन्नाम सैन्येऽत्र, मया त्वं चोपलक्षितः । अस्मात्समरविजयात्तां, तां कन्यां त्वं विमोचय ६८
Jain Educatio
n
al
For Private Personel Use Only
Kinaw.jainelibrary.org