SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ 4 ॥१९२॥ Jain Education I कुरु पाणिग्रहं तस्याः, पूर्णा सन्धा यथा भवेत् । अस्या भाग्येन लब्धस्त्वं, प्रसङ्गाद्वाञ्छितो वरः ॥६९॥ हृष्टेन समरेणाथ, भुवनश्रीः कुमारिका । सुशृङ्गारितसर्वाङ्गा, दत्ता चन्द्रोदयाय सा ॥ २७० ॥ सङ्क्षेपात्परिणीताऽथ, वने चन्द्रोदयेन सा । नत्वा कुमारमापृच्छय, स्वस्थाने समरो गतः ॥ ७९ ॥ आरुह्याथ रथं रम्यं कुमारः कन्यया सह । श्रीकुशवर्द्धनपुरे, गन्तुं मार्गे प्रवर्त्तितः ॥ ७२ ॥ कियत्यपि गते मार्गे, तेन क्वापि वने वरे । अपूर्व्वध्वनिमगानं श्रुतमन्यत्र मार्गतः ॥ ७३ ॥ | मत्वा कुतूहलं तत्र, रथं मुक्त्वा प्रियायुतम् । गतो नादानुमानेन, ददर्शाग्रे स ईदृशम् ॥ ७४ ॥ तत्रैकास्ति महावाटी, विविधद्रुमपूरिता । आवासश्चास्ति तन्मध्ये, सप्तभूमिमनोहरः ॥ ७५ ॥ तन्मध्यै कैतुकान्वेषी, प्रवेशं कुरुते स्म सः । तद्गीतश्रवणे लुब्धो, मृगवन्नादमोहितः ॥ ७६ ॥ यदाऽसौ सप्तमी भूमिमारुरोह सुवेगतः । दृष्टाः कन्यास्तदा पञ्च, रूपसौभाग्यसुन्दराः ॥ ७७ ॥ ताः प्रेक्ष्य विस्मयपरो, यावत्पृच्छति किञ्चन । उत्थाय वनिताः सर्वाः प्रतिपत्तिं व्यधुस्तदा ॥ ७८ ॥ तं सत्कृत्यासनाद्यैस्ता, लज्जाविनयतत्पराः । निजाङ्गानि च सङ्गोप्य, कुमारस्याग्रतः स्थिताः ॥ ७९ ॥ For Private & Personal Use Only महा. ॥१९२॥ v.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy