SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ततश्चन्द्रोदयोऽपृच्छत्, हे भद्राः ! किं वने स्थिताः ? । इदं युक्तं न नारीणां यद्वने स्थीयते स्वयम् २८० ॥ का यूयं कस्य नन्दिन्यो ? युष्मद्वार्त्ता निगद्यताम् । विस्मयोऽस्त्येष मच्चित्ते, तेन पृच्छामि वेगतः ॥ ८१ ॥ | पञ्चमध्येऽथ कन्यैका, जगाद शृणु सात्त्विक ! | सम्बन्धः सकलोऽस्माकं तव योग्यस्य कथ्यते ॥८२॥ वैताढ्ये खेचरेन्द्रोऽस्ति, चक्रवर्त्तिसमः श्रिया । सिंहनादाभिधः प्रौढः, श्रीमुखी तस्य च प्रिया ॥ ८३ ॥ तस्याः कुक्षीसमुद्धृता, वयं पञ्चापि कन्यकाः । लक्ष्मी-सरस्वती-गौरी, जयन्ती-मेनिकाभिधाः ॥ ८४ ॥ वयं पञ्चापि नन्दिन्यः, सम्प्राप्ता यौवनं यदा । तदाऽस्मज्जनकोऽपृच्छत्, कञ्चिन्नैमित्तिकोत्तमम् ॥८५॥ अस्माकं पञ्चपुत्रीणां भर्त्ता कस्को भविष्यति । भूचरः खेचरो वाऽपि तं त्वं कथय मे स्फुटम् ॥ ८६ ॥ तदा नैमित्तिकेनोक्तमभिज्ञानयुतं वचः । एकश्चन्द्रोदयः पञ्च, भूचरः परिणेष्यति ॥ ८७ ॥ | सार्धेषु षट्सु मासेषु गतेष्वद्यदिनात्किल । सोऽस्मिन् ! वने कुतो राजन्!, स्वयमेत्र समेष्यति ॥ ८८ ॥ इति श्रुत्वाऽथ तातेन, प्रासादोऽत्र वनेऽप्ययम् । कारितश्च वयं पञ्च, मुक्ता वराप्तिहेतवे ॥ ८९ ॥ सखीभिः सह सत्क्रीडां वयं कुम्मों दिवानिशम् । पूरयेत्सर्व्ववस्तूनि पिता रक्षा करोति च ॥ २९० ॥ Jain Education national For Private & Personal Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy