SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ॥१९३॥ Jain Education सम्पूर्णोऽवधिरयैव, जातोऽस्मद्भाग्यतः पुनः । आगतस्त्वं वरः प्रोक्त, आकारैरुपलक्षितः ॥ ९१ ॥ इति श्रुत्वा कुमारोऽपि, विस्मयं प्राप मानसे । गाथार्थञ्च स्मरन् दध्यौ, हर्षपूरप्रपूरितः ॥ ९२ ॥ अहो संसार वासेऽस्मिन्न, विधेर्विलसितं महत् । दुर्घटं घटतेऽकस्मात्, सुघटं विघटं भवेत् ॥ ९३ ॥ यतः–अम्भोधिःस्थलतां स्थलं जलधितां धूलीलवः शैलतां, कुणतां तृणं कुलिशतां वज्रं तृणप्रायताम् । वह्निः शीतलतां हिमं दहनतामायाति यस्येच्छया, लीलादुर्ललिताद्भुतव्यसनिने दैवाय तस्मै नमः ॥ ९४ ॥ असाध्यं साधयेत् यो द्राक्, सुसाध्यं नैव साधयेत् । विपरीतो हि यद्भावोऽत्राहो विलसितं विधेः ॥९५॥ चिन्तयित्वेति यावत्स, मौनमाश्रित्य संस्थितः । तावत्ता वनिताः प्रोचुः शृणु भाग्यनिधे नर ! ॥ ९६ ॥ सम्पूर्णे सार्धषण्मासावधौ जातस्तदागमः । अद्य लग्नदिनं चास्ति, कुरु पाणिग्रहं ततः ॥ ९७ ॥ पूर्व निमित्तसामग्र्या, पञ्चानां पाणिपीडनम् । यावत्तेन कृतं तावन्न कन्यास्तत्र नो गृहम् ॥ ९८ ॥ ational For Private & Personal Use Only महा ॥१९३॥ www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy