SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ तदा सोऽचिन्तयच्चित्ते, कथं जातं ममेदृशम् ? । क सा राज्यस्थितिः सौधं, स्वर्विमानसमं क्व च?॥१४॥ क स मे दिव्यपल्यङ्कः, व चन्द्रोदयचारुता । क्व सा प्राणप्रिया प्रेमवती कमलमालिका ॥ १५ ॥ कसा चम्पकमालादिपुष्पसामग्रिका शुभा । स्व गसदृशं सर्व, क गतं पूर्वकर्मतः ? ॥ १६॥ | किमरण्यं गिरिः कोऽसौ, शिला कासौ च कर्कशा। सिंहादिभीषणाटव्यां, केनानीतस्त्वहं निशि? ॥१७॥ पुराऽहं स्ववने क्रीडन, हृत्वाऽब्धौ केन पातितः? । तस्मिंस्तीर्णे विवाहोऽभूत्कथं जातमिदं पुनः? ॥१८॥ एवं ध्यायन् क्षणं स्थित्वा, गाथार्थं च स्मरन् हृदि । धैर्य धृत्वा स चोत्थायोत्ततार गिरिशृङ्गतः॥१९॥ अरण्ये भ्रमता तेन, कस्याझोकतरोस्तले । कायोत्सर्गस्थितो दृष्टो, जिनमुद्रां धरन मुनिः ॥ २२०॥ क्षमाधारं निर्विकारं, त्यक्ताहारं जितेन्द्रियम् । तं प्रेक्ष्य भावनायुक्तो, ववन्दे स विवेकवान् ॥२१॥ मौनं विमुच्य दत्त्वा च, धर्मलाभाशिष मुनिः। प्रारेभे देशनां पुण्यवाहिनीं पापनाशिनीम् ॥२२॥ दुर्लभं भवकोट्या हि, मानुष्यं चोत्तमं कुलम् । श्रद्धा च धर्मसामग्री, दुर्लभा भविनां भवे ॥ २३ ॥ अपि लभ्यते सुराज्यं, लभ्यन्ते पुरवराणि रम्याणि । न हि लभ्यते विशुध्धः, सर्वज्ञोक्तो महाधर्मः२४ Jain Education etional For Private Personel Use Only ary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy