________________
महा
॥१८॥
धर्म. सुरसेनयुतं युद्धं, सा ज्ञात्वाऽमिततेजसः । शशिवेगेन पुत्रेण, सैन्येन च सहागता ॥३॥
प्रतिपत्तिः कृता मातुः, पुत्रेणामिततेजसा । दृष्ट्वा चन्द्रोदयं तत्र, दध्यौ विद्युल्लता मुदा ॥४॥ अहो गुणाकरः कोऽसौ, किं वाऽयं कल्पपादपः । सुधारसो निधिः किं वा, यस्य चेष्टा शुभेदृशी ॥५॥ नरः सम्भाव्यते कोऽसौ, मया दृष्टोऽस्त्ययं क्वचित् । एवं तस्याश्चिन्तयन्त्याः, स्मृतं द्रागिति चेतसि॥६॥ नन्दीश्वरस्य यात्रार्थ, गच्छन्त्याऽयं पुरा मया । पुष्पभद्रपुरोद्याने, दृष्टश्चन्द्रोदयो रमन् ॥ ७॥ तत्स्वरूपं तया प्रोक्तं, सर्वेषां साऽथ कन्यका । दध्यौ स्फुरति भाग्यं मे, यदिष्टो मिलितो वरः॥ ८॥ कन्याकमलमालायुक्, वरश्चन्द्रोदयो द्रुतम् । आदरणामरपुरेऽथानीतोऽमिततेजसा ॥ ९॥ राजा भुवनचन्द्रोऽपि, हर्षितो वरदर्शनात् । विस्तराच ततश्चक्रे, तस्योः पाणिग्रहोत्सवम् ॥ २१० ॥ गताः स्वस्थानममिततेजोमुख्याश्च सज्जनाः।भुञ्जन् भोगांस्तया साधे, कुमारस्तत्र संस्थितः॥ ११॥ अथान्यदा सुखं सुप्तः, कुमारः स्वगृहे निशि । जजागार प्रगे यावत्तावत्पश्यति चेदृशम् ॥ १२ ॥ अरण्ये स्वापदाकीर्णे, विकटे क्वापि पर्वते । मुक्तं शिलातले केनचिदात्मानं ददर्श सः ॥१३॥
॥१८९॥
Jain Education Inter
•
For Private & Personal Use Only
elinelibrary.org