SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ततो ज्ञात्वा स्वरूपं तत्पिता भुवनचन्द्रराट् । चन्द्रोदयवरार्थेऽथ, कुरुते यावदुद्यमम् ॥ ९२ ॥ तावत्संवीक्ष्य तां कन्या, विद्याभृत्सुरसेनकः। मोहितोऽस्याः सुरूपेण, हृत्वाऽकस्माद् ययौ रयात्॥९३॥ तामिमां कन्यकां नीत्वा, प्रदेशेऽस्मिन्मुमोच सः। विलपन्तीमिमां यावत् , खेचरः स्थापयेद्दलात्॥९॥ तावत्कन्यामातुलेन, मयैवामिततेजसा । गच्छता व्योम्नि दृष्टाऽसौ, रुदन्त्युच्चैरिह स्थिता ॥९५॥ युग्मम् । भागिनेयामिमां ज्ञात्वा, हकितः खेचरो मया। अरे कर्म किमारब्धं ?, जीवितं रोचते न ते ॥१६॥ इत्युक्ते स रुषा योध्धुमागतो मम सम्मुखः । दिव्यास्त्रैर्दारुणं युद्धमावयोरुभयोरभूत् ॥ ९७ ॥ तदा कन्याऽप्यसौ वीक्ष्य, प्रस्तावं चेत्यचिन्तयत्। किं भविष्यति ? नो जाने, तन्मृति साधयाम्यहम् ९८ ध्यावेत्यागत्य वृक्षेऽस्मिन्, मृत्यवे यावदुद्यता । असौ तावत्त्वया पाशाद्रक्षिता स्वसृजा मम ॥९९॥al हत्वाऽहं सुरसेनं तमधुनाऽत्र समागतः । अस्माकमेष सम्बन्धः, कन्याया मातुलस्त्वहम् ॥ २०० ॥ अथो कुमारवृत्तान्तं, यावत्पृच्छेत्स खेचरः। किन्तु तावदने तत्र, महत्सैन्यं समागतम् ॥ १ ॥ सैन्यं पश्यन्ति ते यावत्तावचामिततेजसा । निजोपलक्षिता माताऽऽयाता विद्युल्लताऽभिधा ॥ २॥ JainEducation For Private & Personal Use Only O w .iainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy