________________
धर्म.
॥१८८॥
खेचरः स्माह भद्र ! त्वं, परोपकृतिकारकः । दृश्यसेऽत्रैत्य यत्कन्यामरणं येन वारितम् ॥ ८१ ॥ विद्याधरञ्च पप्रच्छ,कुमारोऽपि विचारवान् । द्वीपः क एष कस्त्वञ्च, का कन्या मृत्युसाधिका ? ॥८२॥ श्रूयतां खेचरः स्माह, द्वीपोऽयममराभिधः । अस्त्यत्रैवामरपुरं, स्वर्गखण्डमिव क्षितौ ॥ ८३ ॥ राजा तत्रास्ति भुवनचन्द्रश्चन्द्र इवोज्ज्वलः । चन्द्रावलीति तद्भार्या, सुता कमलमालिका॥ ८४ ॥ एकदा सा सखीवृन्दसंयुता कानने गता । कर्तुश्च विविधां क्रीडां, प्रवृत्ता तत्र हर्षिता ॥ ८५॥ तदा किंनरकिंनौँ, मिलित्वा तत्र सुस्वरम् । चन्द्रोदयकुमारस्य, गायतः स्म गुणान घनान् ॥८६॥ कुमारी तद्गणान् श्रुत्वाऽपृच्छद्गत्वा तदन्तिके । अहो कोऽयं कुमारो यद्वर्णनं क्रियते सुरैः ? ॥ ८७ ॥ किंनरी प्राह हे कन्ये!, पुष्पभद्रपुरेश्वरः । पुष्पचूलोऽस्ति भूपालस्तत्पत्नी पुष्पमालिनी ॥ ८८ ॥ तत्कुक्षिसरसीहंसो, शेयश्चन्द्रोदयो महान् । गृहीता येन गाथैका, लक्षकाञ्चनदानतः॥ ८९ ॥ इत्युक्त्वा किंनरद्वंद्वं, गतं व्योमनि तत्क्षणात् । ततः कन्या कुमारं तं, स्पृहन्तीति व्यचिन्तयत् ॥१९॥ अस्मिन्भवे परभवे, भर्त्ता चन्द्रोदयोऽस्तु मे । मनसाऽपि नरो नान्यः, प्रतिज्ञेति कृता तया ॥११॥
9白白白令心心心心心白白白白白合合合合合合合合合合令令令令令令合會
॥१८८॥
Jain Educatiy
For Private & Personal Use Only
Alww.jainelibrary.org