________________
दृष्टा सत्त्वं कुमारस्य, स कपाली तु कर्मकृत् । जगाम सहसोत्पत्य, व्योम्नि मुक्त्वा कुमारकम् १७० निरालम्बः कुमारोऽथ, पपात व्योमतोऽर्णवे । पूर्वपुण्यप्रभावेण, फलकं चटितं करे ॥ ७१ ॥ वञ्चनाघोलनान्यायात, संसारमतिदुस्तरम् । संपूर्य लाघवाजीवो, यथा प्राप्नोति सद्गतिम् ॥ ७२ ॥ भीषणं मच्छकूर्माद्यैः, सोऽवगाह्य तथाम्बुधिम् । कल्लोलैः प्रेरितस्तीरं, सम्पाप नवनिर्दिनैः ॥७३॥ युग्मम् । भूमि प्रेक्ष्य दधन्मोदं, स बभ्रामाम्बुधेस्तटे । नालिकेरजलं चाङ्गे, मर्दयित्वाऽभवत्पटुः ॥ ७४ ।। पत्रैः पुष्पैः फलैः रस्यैः, प्राणयात्रां विधाय च । वने वने स चिक्रीड, प्राप्तद्वीप इवामरः ॥७५॥ मातापितृवियोगोत्थं, दुःखं गाथार्थचिन्तया । सोऽवगणय्य धैर्येण, बभ्राम सकले वने ॥ ७६ ॥ महारण्येऽन्यदा श्रुत्वा, रुदितं सोऽग्रतो ययौ । रुदन्त्यास्तत्र बालायास्तेनेति वचनं श्रुतम् ॥ ७७ ॥ रे दैवाहं कथं सृष्टा, निर्भाग्या दुःखभागिनी । अस्तु चेह परत्रापि, भर्त्ता चन्द्रोदयो मम ॥ ७८ ॥ एवं विलप्य सा चूतशाखायां पाशमात्मना । वध्वाऽमुञ्चत्वकण्ठे द्राग्, छिन्नश्चन्द्रोदयेन सः॥७९॥ सचेतना कृता यावत्तदागारकोऽपि खेचरः । कुमारेण च तस्याये, कन्यापाशकथोदिता ॥ १८० ॥
JainEduca
For Private
Personel Use Only