Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 387
________________ एकाकिनं तदात्मानं, भूमिस्थं च ददर्श सः । चिन्तयामास किमिदं, चित्रमत्रेन्द्रजालवत् ? ॥९९॥ क गताः पञ्च कन्यास्ताः, सप्तभूमिगृहं क्व च । एतत्सर्वं क्षणेनैव, जातं मे स्वप्नसन्निभम् ॥३०॥ इति चिन्तापरो भूत्वा, स गतः स्वरथं प्रति । तावत्तत्र स्त्रिया हीनं, रथं पश्यति सर्वथा ॥१॥ सविषादस्ततो दध्यौ, हा हा वैषाऽपि मे प्रिया । सविस्मयोऽथ बभ्राम, सोऽटव्यामवलोकयन् ॥२॥ अग्रे ददर्श चोत्तुङ्गतोरणस्तम्भमण्डितम् । स्वर्णरत्नमयं रम्यं, प्रासादं प्रतिमान्वितम् ॥ ३॥ बिम्ब युगादिनाथस्याऽऽलम्बनं भववारिधौ । दृष्टा तत्र प्रविष्टोऽसौ, वन्दनार्चनहेतवे ॥ ४॥ यावजिनस्य पूजां स, कृत्वा तद्धयानसंस्थितः । तावत्तत्र समायातो, विद्याभृन्मेघवाहनः ॥ ५॥ तत्सार्थेऽस्ति सुतारत्नं, नामतो नरमोहिनी । पूर्वनैमित्तिकेनोक्तस्तस्याश्चन्द्रोदयो वरः ॥६॥ । कुमारं प्राग्दृष्टमिव, दृष्ट्वा सा दधती मुदम् । पित्रा सह जिनेन्द्रस्य, पूजां कर्तुं प्रवर्तिता ॥ ७ ॥ इतश्च सिंहनादोऽपि, स विद्याधरनायकः । संयुक्तः पञ्चपुत्रीभिरागात्तत्र जिनालये ॥ ८॥ चन्द्रोदयोऽपि चैत्यार्चा, कृत्वा सिंह पप्रच्छ तम् । कुतस्त्वमागतः पञ्च, कन्यास्ते मिलिताः क्व च ॥९॥ Jain Education lalional For Private & Personel Use Only O mjainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434