Book Title: Devadhidev Bhagwan Mahavir
Author(s): Tattvanandvijay
Publisher: Arhadvatsalya Prakashan

View full book text
Previous | Next

Page 417
________________ ૩૮૩ भास्वन्मणीमयमुदारतर प्रभाम्भः पद्मभवत्प्रणतदेव किरीटकोटि । भाति स्वदीयवपुपांशुपुषा हि यस्यां सिंहासनं स्फुटरुचा मणिनेव मौलिः ||१२|| सुरासुरैर्निर्मितदण्डमण्डितः सच्चामरैः शुभ्रतरै: प्रवीजितः । त्व राजसे यत्र जगत्पते । यथा सौदामिनीदामविराजिताम्बुदः ||१३|| तेजः श्रिया निर्जितभानुमण्डल, त्वद्रूपलक्ष्म्याः किल कर्णकुण्डलम् । प्रमोदिताखण्डल मण्डल मुहुर् भामण्डल राजति यत्र ते विभो ! ॥१४॥ सुरनिकरकराग्रस्तस्रस्तमन्दारजाति - प्रमुख कुसुमवृष्टेर्दम्भतः सेवितु त्वाम् । उडुततिरववीर्णा किं नु यत्र त्वदीय स्फुरदुरुतरकीर्त्या स्फूर्तिमत्या जितेयम् ||१५|| अयमित्र जिनभर्ता दुःखहर्ता सुसम्प न्मयशिवपदकर्ता वर्त्ततेऽन्यो न कश्चित् । इति वदति नमःस्थो दुन्दुभिस्ते पुरस्ता ― ज्जिन | जलधरगजि तर्जयन् यत्र नादैः ॥१६॥ बिलसदमृतधाराः किं पिवाम्येष हर्षा न्मधुरतरपयो वा कामधेनुस्तनोत्यम् । इति जननिकरेण व्यायताsपायि यस्या पुलकिततनुभाजा नाथ ! गौस्तावकीना ॥१७॥ मोहावभूपतिरय जगतामसाध्यो 1 साधि त्वया मदनमुख्यभटैर्युतस्तत् । उत्तम्भितस्तव पुरः सुरसेव्य ! यस्या - मिन्द्रध्वजस्य मिषतो विजयध्वजोऽयम् ||१८||

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439