Book Title: Danopdeshmala
Author(s): Ramyarenu
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 382
________________ ३५५ उचितदानयोग्यपात्रवर्णनम् अतिहीसुं माहणेसुं, मागहगंधव्वनडभडेसुं च । सहियसुयासणिणंदणजंमूसवपमुहकज्जेसु ॥ ७९॥ कित्तिणिमित्तं दाया, जं दव्वं वावरेइ एएसु । णाणधणा मुणिवइणो तमुचियदाणं समाहिंसु ॥ ८०॥ व्याख्या-वैशेषिका-औलूक्यमतानुसारिणो, नैयायिका-अक्षपादमतावलम्बिनो जटाधराः, मीमांसका-भाट्टप्राभाकरभेदास्त्रिदण्डिनः, सांख्या:-कापिलदर्शिनः, भिक्षवः-सौगताः, प्रमुखशब्दोऽमीषां भेदप्रभेदसूचकः । वैशेषिकाश्च नैयायिकाश्च मीमांसकाश्च सांख्याश्च भिक्षुप्रमुखाश्च वैशेषिकनैयायिकमीमांसकसांख्यभिक्षुप्रमुखास्तेषु, तियसट्ठित्ति त्रिषष्ट्यधिकसहितानि यानि त्रीणि शतानि तत्संख्या ये क्रिया-अक्रियादिवादिनः पाखण्डिनस्तेषु जिनमतप्रतीतेषु ॥ यदुक्तंअसिइसयं किरियाणं अकिरियवाईण होइ चुलसीई ।। अण्णाणिय सत्तठ्ठी वेणइयाणं च बत्तीसं ॥१॥* एतत्संख्योत्पत्तिमाह-अशीत्यधिकशतं क्रियावादिनाम्, तथा च न कर्तारमन्तरेण क्रिया पुण्यबन्धादिलक्षणा भवति, तत एवं परिज्ञायात्मसमवायिनीं वदन्ति तच्छीलाश्च ये ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा अमुनोपायेनाशीत्यधिकशतसंख्या विज्ञेयाः। जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यपापमोक्षरूपान्नवपदार्थान् परिपाट्या विन्यस्य स्वपरभेदाभ्यां गुणयित्वा नित्यानित्याभ्यां च संगुण्य ततः कालेश्वरात्मनियतिस्वभावभेदैः पञ्चभिर्गुणिता जाता अशीत्यधिकशतं भेदाः । [९४२४२४५=१८०] अक्रियावादिनां संख्यामाह __न कस्यचित्प्रतिक्षणमनवस्थितस्य पदार्थस्य क्रिया संभवति* श्रीसूत्रकृताङ्गे उद्धृत-गाथा-पृ.१९६ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438