Book Title: Danopdeshmala
Author(s): Ramyarenu
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 386
________________ उचितदानविषये श्रीकर्णनरेश्वरकथा ३५९ कर्णः प्राह नृपेदानीं पाण्डवाः क्षीणसंपदः । सुजेयास्तदिमैः सार्धं, युद्धमेव विधीयते ॥ १९॥ दुर्योधनोऽपि तद्वाक्यं, तथैव प्रतिपद्य च ।। सोऽग्रेऽपि रणसजोऽभूत्तदुक्ते तु किमुच्यते ॥ २० ॥ अथ श्रीपाण्डुभूदुर्योधनभूधनयोमिथः । रणोऽतिदारुणो जज्ञे, रामरावणयोरिव ॥ २१ ॥ जाते सप्तदशेऽहन्यद्यार्जुनेनैव समं मया । ध्रुवं विधेया संग्रामसंकथा हृद्व्यथापहृत् ॥ २२ ॥ इति निश्चयमाधाय विहितस्नानमङ्गलः । आराधितपरब्रह्मा सर्वाङ्गीणविभूषणः ॥ २३ ॥ सन्नद्धबध्यकवचो विविधायुधबन्धुरः । सिन्धुरस्कन्धमारूढः श्वेतच्छत्रोपशोभितः ॥ २४ ॥ चामराभ्यां वीज्यमानो, भट्टथट्टकृतस्तुतिः । सर्वेभ्यो याचकेभ्यो रैरूप्यरत्नादिकं ददत् ॥ २५ ॥ जितकाशी भवान् भूयादिति वृद्धाङ्गनाशिषाम् । वचांस्याकर्णयन् कर्णकोटराभ्यां पदे पदे ॥ २६॥ सुयोधनादिभूपालपरीवारपरीवृतः ।। वाद्यमानेषु निस्वानादिवादित्रेषु सत्सु सः ॥ २७ ॥ श्रीकर्णदेवभूजानिर्मूगारिरिव निर्भयः । पुरीदरीतो निर्गत्य, रणभूम्यामुपेयिवान् ॥ २८॥ सप्तभिः कुलकम् ॥ यः कोऽप्येत्य कमप्यर्थं, प्राणी प्रार्थयतेऽधुना । तस्मै तत्तद् ददाति श्रीकर्ण इत्थमघोषयत् ॥ २९ ॥ तच्छ्रुत्वाभ्यर्णवर्त्तिभ्यो, ग्रामेभ्यो विभवार्थिनः । अहंपूर्विकया तत्रास्तोका लोकाः समागमन् ॥ ३०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438