Book Title: Danopdeshmala
Author(s): Ramyarenu
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 401
________________ ३७४ श्रीदानोपदेशमाला (गा. ९५) यथा गौरी गिरीशस्य, यथा मघवतः शची । तथा तस्य भुवो भर्तुर्वप्रानामाभवत् प्रिया ॥ ३ ॥ मघवतः-इन्द्रस्य, तकारान्तः शब्दोऽयम् । सा पट्टमहिषी राज्ञा, सदा भोगानभङ्गान् । भुञ्जाना सुषुवे सूनुं सिंहस्वप्नेन सूचितम् ॥ ४॥ धरित्रीवृत्रहा पुत्रस्यातुच्छं जनुरुत्सवम् । महाविभूत्या कृतवान् मेरौ शक्र इवार्हतः ॥ ५॥ इतश्च मासे संवृत्ते वीरसेननृपोपरि । मानभङ्गनृपोऽचालीत्प्रबलेन बलेन युक् ॥ ६॥ स्फुरद्धरिखुरक्षुण्णक्षमोद्भूतरजोभरैः । दिवापि सैन्यलोकानां, निशां संदर्शयन्निव ॥ ७॥ मतङ्गजकपोलोद्यदानाम्बुनिकुरम्बकैः । इलातलमकालेऽपि, कुर्वन्निव जलाविलम् ॥ ८॥ प्रचलच्चक्रिचीत्कारध्वनिबधिरितश्रुतीन् । सीमालपृथिवीपालान् , विदधान इवानिशम् ॥ ९॥ तत्पुरः प्रचलत्पत्तिकृपाणप्रतिबिम्बितः । एकोऽप्यनेकधा मार्गे गच्छंस्तत्पुरमाप सः ॥१०॥ कलापकम् ।। वीरसेनोऽपि भूपालश्चतुरङ्गचमूवृतः । नगरान्निरगादाशु केशरीव गुहान्तरात् ॥ ११ ॥ ततः प्रात:क्षणे वृत्ते, दलयोरुभयोरपि । आयोधनं प्रववृते, खड्गाखड्गि शराशरि ॥ १२ ॥ वीरेण वीरसेनेन, सेनानीर्मानभूपतेः । पातितो धरणीपीठे, वायुनेव महीरुहः ॥ १३ ॥ विसंस्थुलं बलं वीक्ष्य मानभङ्गनृपो निजम् । कोपाटोपेन दष्टौष्ठो, वीरसेनमधावत ॥ १४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438