Book Title: Danopdeshmala
Author(s): Ramyarenu
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 429
________________ ४०२ श्रीदानोपदेशमाला अस्यां पुरा विशलदेवनरेशमन्त्री, श्रीवस्तुपाललघुबान्धवतेजपालः । श्रीगोद्धरावनिपघुघुलराजजेता रम्यांश्चकार जिनमन्दिरमुख्यकार्यान् ॥ २॥ भिल्लादितस्करगणैः परिपीडितानां दुःखं विलोक्य सचिवाधिपतिः प्रजानाम् । तेषां हिताय करुणाजलधिर्विशालं, सालं विधाय जनदुःखमलं जहार || 3 11 11 4 11 तस्यां श्रीमालिवंशोऽभूत्, सर्ववंशशिरोमणिः । तस्मिन्वंशेऽजनि श्राद्धो, नाम्ना दलपतोऽनघः ॥ ४॥ (अनुष्टुप्) तत्पुत्रो मग्नलालोऽभूत्, मुक्तास्तीति तदङ्गना । तयोः पुत्रास्त्रयस्सन्ति, विवेकविशदाशयाः (बापुलालः, पानाचन्दः, खुशाल :) आद्येन बापुलालेन, स्वमातुः पुण्यहेतवे । सटीका लेखयाञ्चक्रे, दानोपदेशमालिका ॥ ६॥ स्वच्छे बृहत्तपोगच्छे, विजयसिंहसूरयः । बभूवुर्भुवनोत्तंसाः, शीलैकचारुभूषणाः ॥ ७ ॥ आज्ञां तेषां समासाद्य, सत्यविजयपण्डिताः I क्रियोद्धारं ततश्चक्रुर्जिनागमानुसारतः ॥ ८ ॥ तदादितो हि प्रगटीबभूव, संविग्नशाखा भुवने प्रसिद्धा । क्रमेण तस्यामभवन्मुनीशा, बुद्ध्यादियुक्ता विजयाभिधानाः ॥ ९ ॥ ( उपजातिः ) तच्छिष्या भुवने ख्याता, विजयानन्दसूरयः । 1 गङ्गोर्मिस्वच्छशीलाढ्याः, शिष्यौघसेवितक्रमाः ॥ १० ॥ तेषां पट्टे किलेदानीं वर्त्तते गच्छनायकाः विजयकमलाचार्याः, शीलालंकृतभूघनाः ॥ ११॥ विक्रमभूपतेः कायकायाङ्कभूमितेऽष्टके रम्ये । (१९६६) भूपतिशयाजिरावइत्यभिधे यस्य शुभे राज्ये ॥ १२॥ विजयानन्दसूरीणां विनयि विनेयस्य वाचनायेयम् । श्रीमत्प्रवर्त्तककान्तिविजयस्य समर्पिता हर्षात् ॥ १३ ॥ ( आर्या) इति । ॥ समाप्त || Jain Education International (वसन्ततिलका) For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438