Book Title: Danopdeshmala
Author(s): Ramyarenu
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 408
________________ ३८१ प्राणिवध-प्राणिपालनविषये श्रीमानभङ्ग-श्रीअभयसिंहनृपकथा हंहो वीराधिवीराः! स, कोऽप्यस्ति वसुधातले । य एनां कनकवतीं वारणात् परिरक्षति ॥ ८७ ॥ अस्मिन्नवसरे वीराधिवीरो वीरसेनसूः ।। तत्तारस्वरमाकर्ण्य, तूर्णं तत्र समागमत् ॥ ८८॥ आचिक्षेप च रे दुष्ट! मातङ्गोऽसि सुनिश्चितम् । यदेवं स्त्रीवधं कुर्वन्, सर्वथापि न लजसे ॥ ८९ ॥ इत्युदीर्य सद्वीर्यश्रीर्वज्रादपि कठोरया । मुष्ट्या जघान दुर्वारं वारणं मारणोद्यतम् ॥ ९० ॥ ततो राजसुतां त्यक्त्वाभयसिंहं प्रति क्रुधा । दुर्धरः सिन्धुरोऽधावीत्, सिन्धुरोध इवाम्बुधिम् ॥ ९१॥ अभयोऽपि हि मण्डल्या भ्रमेण भ्रमयन्निभम् । खेदखिन्नमकार्षीद् द्रागहो शक्तिर्महात्मनाम् ॥ ९२॥ सिन्धुरो वसुधापीठममन्दस्वेदबिन्दुभिः । सिञ्चन् क्षणं स्थिरो रेजे सानुमानिव निर्झरैः ॥ ९३ ।। ततोऽसौ विद्युदुत्पातकरणेन पराक्रमी । सिन्धुरस्कन्धमभयसिंहः सिंह इवाचटत् . ॥ ९४ ।। तीक्ष्णाङ्कशप्रहारेण वशीकृत्य मतङ्गजम् । राजपुत्राकुलं राजकुलं प्रत्यचलद् बली ॥ ९५ ॥ अहो धैर्यमहो तेजः प्रियमित्रवणिग्भुवः ।। इत्ययं बन्दिभिरिव, लोकैरस्तावि शस्तधीः ॥ ९६ ॥ सुरूपं सुभगाकारं कुमारं वीक्ष्य भूपभूः । सा पञ्चबाणबाणानामियाय लघु लक्षताम् ॥ ९७॥ चिरं पुरपुरन्ध्रीणां, विलोचनविलोकितः । बबन्ध धीमानालानस्तम्भे राजमतङ्गजम् ॥ ९८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438