Book Title: Danopdeshmala
Author(s): Ramyarenu
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 412
________________ प्राणिवध-प्राणिपालनविषये श्रीमानभङ्ग - श्री अभयसिंहनृपकथा तदा राज्यश्रिया स्वर्णवत्या च प्रिययान्वितः । राजा रेजे स्मर इव रतिप्रीतिपरीवृतः ॥ १३५ ॥ पितृवत्प्रियमित्राख्ये, वणिजि प्रीतिभक्तिभाक् । नरेन्द्रो ऽभयसिंहाख्यो, न्यायेन प्रशशास गाम् ॥ १३६ ॥ अन्यदा दयितायुक्तं गवाक्षस्थं प्रजाप्रभुम् । वनपालः समभ्येत्य प्राञ्जलिस्तं व्यजिज्ञपत् ॥ १३७॥ देवाद्य युष्मदुद्याने ज्ञानसूराह्वयो गुरुः । ज्ञानोद्योतहतध्वान्तनिकरः समवासरत् ॥ १३८॥ इति श्रुत्वा नृपो हर्षाद्दानेन परितोष्य तम् । परिच्छदयुतो गत्वा सूरिपादानवन्दत ॥ १३९ ॥ सोऽपि सूरीश्वरो धर्मलाभेनानन्द्य तं नृपम् । जन्तुजातहितां धर्मदेशनामीदृशीं व्यधात् ॥ १४०॥ भो भो ! भव्या भवजलनिधौ संभ्रमाद् बंभ्रमद्भिश्चिन्तारत्नोपमनरभवं प्राप्य दुष्प्रापमेनम् । त्याज्या हिंसा नरकजननी, येन युष्माकमत्र, प्रोच्चैः स्वर्गासुरनरभवाः संपदः संभवेयुः ॥ १४१ ॥ गुरुवक्त्राब्जनिर्गच्छद्देशनाममृतोपमाम् । निपीय मस्तकन्यस्तहस्तोऽपृच्छद् गुरुं नृपः ॥ १४२ ॥ भगवन्! मयका पूर्वभवे किं कर्म निर्मितम् । येनात्रैव ममात्यर्थं संपदः सापदोऽभवन् ॥ १४३॥ तत्प्रसद्य प्रभो ! ब्रूहि, मत्पुरस्ताद्यथास्थितम् । ततो गुरुर्जगौ राजन् ! शृणु तथाहि भरते रम्यारामे ग्रामे प्रकृत्या भद्रको पूर्वभवं निजम् ॥ १४४॥ कुशस्थले । भद्रनामासीत् कुलपुत्रकः ॥ १४५ ॥ Jain Education International For Personal & Private Use Only ३८५ (मन्दाक्रान्ता) www.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438