________________
प्राणिवध-प्राणिपालनविषये श्रीमानभङ्ग - श्री अभयसिंहनृपकथा
तदा राज्यश्रिया स्वर्णवत्या च प्रिययान्वितः । राजा रेजे स्मर इव रतिप्रीतिपरीवृतः ॥ १३५ ॥ पितृवत्प्रियमित्राख्ये, वणिजि प्रीतिभक्तिभाक् । नरेन्द्रो ऽभयसिंहाख्यो, न्यायेन प्रशशास गाम् ॥ १३६ ॥ अन्यदा दयितायुक्तं गवाक्षस्थं प्रजाप्रभुम् । वनपालः समभ्येत्य प्राञ्जलिस्तं व्यजिज्ञपत् ॥ १३७॥ देवाद्य युष्मदुद्याने ज्ञानसूराह्वयो गुरुः । ज्ञानोद्योतहतध्वान्तनिकरः समवासरत् ॥ १३८॥ इति श्रुत्वा नृपो हर्षाद्दानेन परितोष्य तम् । परिच्छदयुतो गत्वा सूरिपादानवन्दत ॥ १३९ ॥ सोऽपि सूरीश्वरो धर्मलाभेनानन्द्य तं नृपम् । जन्तुजातहितां धर्मदेशनामीदृशीं व्यधात् ॥ १४०॥ भो भो ! भव्या भवजलनिधौ संभ्रमाद् बंभ्रमद्भिश्चिन्तारत्नोपमनरभवं प्राप्य दुष्प्रापमेनम् । त्याज्या हिंसा नरकजननी, येन युष्माकमत्र, प्रोच्चैः स्वर्गासुरनरभवाः संपदः संभवेयुः ॥ १४१ ॥ गुरुवक्त्राब्जनिर्गच्छद्देशनाममृतोपमाम् ।
निपीय मस्तकन्यस्तहस्तोऽपृच्छद् गुरुं नृपः ॥ १४२ ॥ भगवन्! मयका पूर्वभवे किं कर्म निर्मितम् । येनात्रैव ममात्यर्थं संपदः सापदोऽभवन् ॥ १४३॥ तत्प्रसद्य प्रभो ! ब्रूहि, मत्पुरस्ताद्यथास्थितम् ।
ततो गुरुर्जगौ राजन् ! शृणु तथाहि भरते रम्यारामे ग्रामे प्रकृत्या भद्रको
पूर्वभवं निजम् ॥ १४४॥ कुशस्थले ।
भद्रनामासीत् कुलपुत्रकः ॥ १४५ ॥
Jain Education International
For Personal & Private Use Only
३८५
(मन्दाक्रान्ता)
www.jainelibrary.org