________________
३८६
श्रीदानोपदेशमाला (गाथा.९५) सोऽन्यदा जनताकाले, दुष्काले भुवि सर्पति । अन्नाभावादनिर्वाहं विदन्नेवमचिन्तयत् ॥ १४६ ।। गत्वा शून्याटवीमध्ये, जन्तुजातं शशादिकम् । व्यापाद्य तत्पलेनाहं कुर्वे स्वोदरपूरणम् ॥ १४७ ।। ततो लकुटमादाय शशं द्रष्टुं वने गतः । धावंस्तस्य विघाताय प्रेषीत्तं कुलपुत्रकः ॥ १४८ ॥ आयान्तं मुद्गरं दृष्ट्वा, शशोऽनश्यन्मृतेर्भिया ।। भद्रोऽपि धावंस्तत्पृष्ठे, तं चिक्षेप पुनः पुनः ॥ १४९ ॥ शशोऽप्यलभमानोऽन्यस्थानं शरणमात्मनः । प्रतिमास्थमुनेरहूयोरन्तराले न्यलीयत ॥ १५० ।। अत्रान्तरे मुनेस्तीव्रतपसा रञ्जिताशया । वनदेवी विचक्रे द्राक् तत्पुरः स्फाटिकीं शिलाम् ॥ १५२ ।। भद्रेण मुद्गरो मुक्त आस्फाल्य स्फटिकाश्मनि । व्यावृत्तो भालदेशेऽस्यालगद् वज्र इवापरः ॥ १५३ ॥ तत्प्रहारगलद्रक्तसिक्तदेहो व्यथातुरः । वाताहतद्रुवद् भद्रो, मूर्च्छितो भूतलेऽपतत् ॥ १५४॥ शीतलानिलसंस्पर्शप्राप्तचैतन्यसंगमः । भद्रो भद्राकृतिं साधु, पुरः पश्यन्नदोऽवदत् ॥ १५५ ॥ हहा मया दुराशेन, यत् कर्म विनिनिर्ममे । तदिदानीमपि व्यक्तं दुःखदायि ममाजनि ॥ १५६ ॥ अथवा मे शुभं कर्म किमप्यद्यापि वर्त्तते । यददृष्टेन केनापि, मुद्गराद्रक्षितो यतिः ॥ १५७ ॥ अन्यथा स्यात् कथंकारमनगारविघातजात् । पातकान्नरकातिथ्यभाजो मम परिच्युतिः ॥ १५८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org