________________
३८७
प्राणिवध-प्राणिपालनविषये श्रीमानभङ्ग- श्रीअभयसिंहनृपकथा ३८७ अथो मुनिरपि ज्ञात्वा, भद्रं भद्रकभाविनम् । प्रतिमां पारयित्वा च, गिरा मधुकिरागृणात् ॥ १५९ ॥ हे भद्र! यः पुमान् मांसलुब्धो निष्करुणाशयः । जीवान् व्यापादयेत् स स्याद् दुर्गदुर्गतिभाजनम् ॥ १६० ।। यस्तु शश्वत्कृपां कुर्यादार्यधीः सर्वजन्तुषु ।। स उल्लघ्यापदां वृन्दं प्राप्नुयात्सुखसंपदः ॥ १६१ ॥ इत्याकर्ण्य मुनिं नत्वा, भद्रोऽवादीदतः परम् । यावज्जीवं जीवघातं न हन्तास्मि दयानिधे! ॥ १६२ ॥ श्रमणोऽप्यभणद् भद्र!, भाविभद्रोऽसि यस्य ते* । एवंविधा भवेन्मेधा, प्राणिरक्षणदक्षणा ॥ १६३ ॥ नतिपूर्वं मुनेः पार्थादुपादायादिमव्रतम् । मन्वानो धन्यमात्मानं भद्रः स्वं धाम जग्मिवान् ॥ १६४॥ नियमस्यानुभावेन, स्वपरीवारपोषणम् । सुखेन विदधानः सन् स दिनान्यत्यवाहयत् ॥ १६५ ।। स भद्रस्तेन पुण्येन, विपद्यात्रैव भारते । क्षेत्रे श्वेतविकापुर्यां, वीरसेनविशांविभोः ॥ १६६ ॥ देव्या वप्राऽभिधानायाः, पुत्रत्वेनोदपद्यत । स त्वं भूपाल! यत्तेऽस्मिन् भवे कष्टपरंपरा ॥ १६७॥ युग्मम् ।। तत्त्वया लकुटो मुक्तो, यावद्वेलं शशं प्रति । तावत्यो भवतो विघ्नश्रेणयो जज्ञिरे नृप! ॥ १६८ ॥ मानभङ्गनृपो यच्च, जीवान् हत्वा पलाद्यभूत् । तत्पापान्निरये गत्वा भ्रमिष्यति चिरं भवे ॥ १६९ ॥ इति श्रुत्वा नृपो जातजातिस्मृतिर्ऋषीश्वरात् । यावज्जीवं जीवरक्षाभिग्रहं साग्रहोऽग्रहीत् ॥ १७० ॥
* एष प्रयोगोऽर्थसंगतो न भाति, यत्तवेत्य समीचीनोऽस्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org