________________
३८८
श्रीदानोपदेशमाला (गाथा.९६) ततः सूरीश्वरान्नत्वाऽभयसिंहो गृहे गतः । सकलेऽपि निजे राज्येऽचीकरन्मारिवर्जनम् ॥ १७१ ।। दिने दिने जिनेन्द्राणां, मन्दिरेषु प्रभावनाम् । कुर्वन्नभयसिंहेशो विपद्य त्रिदिवं ययौ ॥ १७२ ॥ इत्थं श्रीमानभङ्गाभयहरिनृपयोर्जीवहिंसावनाख्यम् , सम्यग्वृत्तान्तमेतं श्रवणपथगतं भव्यलोका विधाय। त्यक्त्वा प्राणिप्रहाणं नरकगतिकरं जीवरक्षाप्रदानम् , कुर्वीध्वं येन वेगान्नरसुरशिवकृत् संपदो वो भवेयुः ॥१७३ ॥ (स्रग्धरा) ___ इति श्रीरुद्रपल्लीयगच्छशृङ्गारहारश्रीसंघतिलकसूरिशिष्यश्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तौ प्राणिवध-प्राणिपालनविषये मानभङ्गाभयसिंहनरेन्द्रकथा समाप्ता। अभयदानस्वरूपमुक्त्वा पञ्चमस्य ज्ञानदानस्य स्वरूपमाहअह कमपत्तं सिरिणाणदाणमाहप्पयं णिसामेह । जह गरुयकम्मणियरं हणिय लहुं सिवसिरि लहह ॥९६॥
व्याख्या-अथ क्रमप्राप्तं-अनुक्रमायातम्, श्रीज्ञानदानमाहात्म्यं निशाम्यताकर्णयत अर्थाद् भो भव्या इति शेषः, तस्मिन्नाकर्णिते किं स्यादित्याह। यथा गुरु(क)-कर्मनिकरं गरीयो ज्ञानावरणादिकर्मकदम्बकं हत्वा समूलमुन्मूल्य, लघु-क्षिप्रं, शिवश्रियं-मोक्षलक्ष्मी, लभध्वं-प्राप्तुत श्रुतज्ञानावाप्तिर्गुरुशुश्रूषात एव स्यात् ।
यदुक्तं पञ्चमाङ्गे-तहारुवेणं भंते! समणं माहणं वा पन्जुवासमाणस्स किंफला पन्जुवासणा पण्णत्ता? गोयमा! सवणफला। से णं भंते ! सवणे किंफले? णाणफले। से णं भंते ! णाणे किंफले? विण्णाणफले । से णं भंते ! विण्णाणे किंफले? पच्चक्खाणफले । से णं भंते ! पच्चक्खाणे किंफले ? संजमफले। से णं भंते! संजमे किंफले ? अणण्हयफले। से णं भंते ! अणण्हए किंफले ? तवफले। से णं भंते ! तवे किंफले ? वोदाणफले। से णं भंते ! वोदाणे किंफले?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org