________________
३८४
श्रीदानोपदेशमाला (गाथा. ९५)
भूपालोऽपि विभावर्यां, प्रच्छन्नं श्रेष्ठिनन्दनम् । हन्तास्मीति विनिश्चित्य, पत्तिभ्यस्तं ददौ मुदा ॥ १२३ ॥ तैः पदातिभिरात्मानं रक्षन्तमभिवीक्ष्य सः 1 निशीथे स्वस्य रक्षार्थमशिश्रियददृश्यताम् ॥ १२४ ॥ तत्रस्थमप्यपश्यन्तः, पत्तयस्तं मिथो जगुः ।
यन्नो मुखे रजः क्षिप्त्वा क्वाप्यगादेष सिद्धवत् ॥ १२५ ॥ तच्छ्रुत्वा मानभङ्गोऽपि मैष दुष्टो मदङ्गजाम् । हरेदिति विचिन्त्याशु तद्गृहोर्ध्वतलं ययौ ॥ १२६॥ यत्र सुप्तास्ति कनकवती तत्रैव पार्थिवः । सुप्तः स्वप्ने सुतां तेन, ह्रियमाणां व्यलोक्यत ॥ १२७ ॥ रे रे! क्व यासि दुष्टात्मन्नपहृत्य मदङ्गजाम् । इति जल्पन्नृपः खड्गकरोऽधावदमुं प्रति ॥ १२८॥ तीव्रक्रोधवशाद् धावन् सौधोपरिगभागतः । पतितो नृपतिर्मृत्वा जगाम नरकावनीम् ॥ १२९॥ तदाखिलो जनो मानभङ्गभूमिविभुं मृतम् । उभाकर्णि समाकर्ण्य, परमानन्दमासदत् ॥ १३० ॥ सांप्रतं कं क्षमापालं विदध्याम इति जल्पताम् । प्रधानानां पुरो मातृव्यन्तरी व्योमगेत्यवक् ॥ १३१॥ हंहो सामन्तमन्त्र्याद्या वीरसेनमहीपतेः I सूनवेऽभयसिंहाय ददध्वं राज्यसंपदम् ॥ १३२॥ इमां दैवीं गिरं श्रुत्वा तैरपि स्फुटविक्रमः । वीरसेनाङ्गजो राज्येऽभयसिंहोऽभ्यषिच्यत ॥ १३३॥ भूपालोऽभयसिंहोऽपि महोत्सवपुरस्सरम् । चकार कनकवत्याः पाणिपीडनमङ्गलम् ॥ १३४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org