________________
प्राणिवध-प्राणिपालनविषये श्रीमानभङ्ग श्रीअभयसिंहनृपकथा ३८३ यन्नाथ! भूमिनाथानां मूर्तयः पटचित्रिताः । आनाय्य दर्शितास्तस्यै, तासु सा नान्वरज्यत ॥ १११॥ पुरुषद्वेषिणी सैषा, सांप्रतं करिसंकटात् । मोचिता येन वीरेण, तमेव हि पतीयति ॥ ११२॥ स्वामिस्तदा मयाभाणि, प्रियमित्रवणिक्सुतः । नोचितोऽभयसिंहोऽयं, क्षत्रगोत्रभुवस्तव ॥ ११३ ॥ साप्याह सखि! मा स्मैवं वोचः कोऽप्येष भूपभूः । अन्यथा कथमीक्षं, वशीकुर्यादिभं शुभम् ॥ ११४॥ यद्येष न भवेद्राजतनयो न तदा मम । चौरवच्चोरयेच्चेतोरत्नमन्यदिदं शृणु ॥ ११५ ।। येन मे रक्षिता प्राणा, धर्मराजनिभादिभात् । तं मुक्त्वान्यं पतीयामि चेत्तदा स्यां कृतघ्निका ॥ ११६ ।। इत्युक्त्वा विरतायां, तद्वयस्यायां विशांपतिः । दध्याविति वणिक्पुत्रो निहन्तव्यो यथा तथा ॥ ११७॥ ततः सखीसमक्षं क्ष्मापालः पत्तनपालकम् । इत्यादिशदरे ! गत्वाऽभयसिंहमिहानय ॥ ११८॥ यस्मादस्मत्सुतानेन रक्षिता करिसंकटात् ।। अतोऽस्माभिरसौ श्रेष्ठिसूनुः संमान्य एव हि ॥ ११९ ॥ इति तद्वचसा सोऽपि, प्रियमित्रवणिग्गृहे । गत्वाभयाग्रतो राजशासनं स न्यवेदयत् ॥ १२० ॥ सोऽपि दध्यौ विरुद्धोऽयं, राजा यद्यपि विद्यते । तथापि पूर्वमाता मे, सर्वं भव्यं विधास्यति ॥ १२१ ॥ इति चेतसि निश्चित्याऽभयसिंहः स सिंहवत् । निर्भयो मानभङ्गस्य सभां तेन सहाययौ ॥ १२२ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org