________________
३८२
श्रीदानोपदेशमाला (गा. ९५) दध्यौ धराधिपो नायं वणिक्सूनुः परं ह्यसौ । आकृत्या पौरुषेणापि लक्ष्यते क्षत्रगोत्रजः ॥ ९९ ॥ अतोऽसौ दैवतं वाक्यं, प्रायः सत्यापयिष्यति । तथापि पुरुषेणोच्चैर्न मोक्तव्यं स्वपौरुषम् ॥ १०० ॥ येन केनाप्युपायेन विनाश्योऽयं मया रिपुः ।। एवं विमृश्य भूमीशः सुभटान् प्रत्यभासत ॥ १०१ ॥ सतीषु भटकोटीषु यदेष वणिजाङ्गतः । गजं वशीचकारेत्यपवादो वो भविष्यति ॥ १०२ ॥ अतो भवद्भिनि:शवं, कुञ्जरादवरोहतः ।। अस्य मूर्धा कृपाणेनच्छेद्यः कमलनालवत् ॥ १०३ ॥ इत्यादिष्टा भटास्तेन विविधायुधपाणयः । तं निहन्तुं परिवठः, शूकरा इव वारणम् ॥ १०४॥ अभयोऽप्यभयस्वान्तस्तान्मत्वा स्वस्य घातकान् । अदृश्यवश्यतां प्राप्य, निजं धाम जगाम सः ॥ १०५ ।। विलक्षैः सुभटैरेत्य भूपो व्यज्ञपि हे विभो! ।। यावत् प्रवृत्तास्तं हन्तुं तावत्सोऽन्तर्दधे द्रुतम् ॥ १०६ ॥ तन्नाथ! बहुशोऽस्माभिः, शोध्यमानोऽपि सर्वतः । नोपलेभे वणिक्पुत्रोऽन्धलैरिव दिवा मणिः ॥ १०७ ।। राजा तानाह साक्षेपं, रे रे! क्लीबावतंसकाः! । मुधा द्रव्यादिनो यूयं, दूरीभवत मद्दशोः ॥ १०८॥ इतीरिते क्षणं क्षोणीनाथे प्रक्षीणतेजसि । वसन्तसेना कनकवत्यादिष्टागता सती ॥ १०९ ।। प्रणत्य च महीपालं व्यजिज्ञपदिदं वचः । देवः स्वयं तनूजाया, जानात्येव हि चेष्टितम् ॥ ११० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org