________________
३८१
प्राणिवध-प्राणिपालनविषये श्रीमानभङ्ग-श्रीअभयसिंहनृपकथा हंहो वीराधिवीराः! स, कोऽप्यस्ति वसुधातले । य एनां कनकवतीं वारणात् परिरक्षति ॥ ८७ ॥ अस्मिन्नवसरे वीराधिवीरो वीरसेनसूः ।। तत्तारस्वरमाकर्ण्य, तूर्णं तत्र समागमत् ॥ ८८॥ आचिक्षेप च रे दुष्ट! मातङ्गोऽसि सुनिश्चितम् । यदेवं स्त्रीवधं कुर्वन्, सर्वथापि न लजसे ॥ ८९ ॥ इत्युदीर्य सद्वीर्यश्रीर्वज्रादपि कठोरया । मुष्ट्या जघान दुर्वारं वारणं मारणोद्यतम् ॥ ९० ॥ ततो राजसुतां त्यक्त्वाभयसिंहं प्रति क्रुधा । दुर्धरः सिन्धुरोऽधावीत्, सिन्धुरोध इवाम्बुधिम् ॥ ९१॥ अभयोऽपि हि मण्डल्या भ्रमेण भ्रमयन्निभम् । खेदखिन्नमकार्षीद् द्रागहो शक्तिर्महात्मनाम् ॥ ९२॥ सिन्धुरो वसुधापीठममन्दस्वेदबिन्दुभिः । सिञ्चन् क्षणं स्थिरो रेजे सानुमानिव निर्झरैः ॥ ९३ ।। ततोऽसौ विद्युदुत्पातकरणेन पराक्रमी । सिन्धुरस्कन्धमभयसिंहः सिंह इवाचटत् . ॥ ९४ ।। तीक्ष्णाङ्कशप्रहारेण वशीकृत्य मतङ्गजम् । राजपुत्राकुलं राजकुलं प्रत्यचलद् बली ॥ ९५ ॥ अहो धैर्यमहो तेजः प्रियमित्रवणिग्भुवः ।। इत्ययं बन्दिभिरिव, लोकैरस्तावि शस्तधीः ॥ ९६ ॥ सुरूपं सुभगाकारं कुमारं वीक्ष्य भूपभूः । सा पञ्चबाणबाणानामियाय लघु लक्षताम् ॥ ९७॥ चिरं पुरपुरन्ध्रीणां, विलोचनविलोकितः । बबन्ध धीमानालानस्तम्भे राजमतङ्गजम् ॥ ९८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org