________________
३८०
श्रीदानोपदेशमाला (गा. ९५) ततस्तेन सकोपेन नृपाज्ञास्मै व्यतीर्यत ।। सोऽपि तां लङ्घयामास हनुमानिव सागरम् ॥ ७५ ॥ हंहो योद्धाः ! स्फुरत्क्रोधा अमुं हत हत द्रुतम् । इति जल्पन्नयं खड्गपाणिः श्राक्तमधावत ॥ ७६ ॥ तं समायान्तमालोक्यानिन्द्यया विद्यया तया । गीर्वाणवत्तिरोभूयाऽभयसिंहो गृहं ययौ ॥ ७७॥ गते चास्मिन् पुरारक्षो, विलक्षोऽभ्येत्य वेगतः । न्यवेदयद्यथावृत्तं, सर्वं सर्वंसहाभुजे ॥ ७८ ॥ राजा जगाद रे क्लीब! भवता किं विनिर्ममे । यद्योधशतयुक्तेनाप्येकाकी स हतो न हि ॥ ७९ ॥ परेद्यविर्महीजानिसिन्धुरो मददुर्धरः ।। आलानस्तम्भमुन्मूल्य नगरे स्वैरमभ्रमत् ॥ ८०॥ क्वापि प्रभञ्जन इवोन्मूलयन् भूरिभूरुहान् । क्वचिम्लेच्छ इवामूलचूलं चैत्यानि पातयन् ॥ ८१ ॥ परचक्र इव क्वापि त्रासयन्नागरान्नरान् । क्वचिन्मदाम्बुभिर्मेघ इव वानि पङ्कयन् ॥ ८२॥ कुशिष्य इव स क्वापि, कामगुणगुरून् गुरून् । निषादिनः खिलीकुर्वन् कल्पान्ततुलनां ललौ ॥ ८३ ॥ कुलकम् ॥ इतश्च काननात्कामपूजां कृत्वा नृपाङ्गजा । व्यावृत्ता कनकवती, ददृशे तेन दन्तिना ॥ ८४॥ कोपाटोपोत्कटाकारः, करी राजाङ्गजां प्रति । वेगेनाधावत व्याघ्र, इव त्रस्तमृगीं प्रति ॥ ८५ ॥ शमनस्यापरं बन्धुमिव तं मत्तहस्तिनम् । आयान्तं वीक्ष्य तत्सख्यः इति पूच्चक्रिरे भिया ॥ ८६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org