________________
३७९
प्राणिवध-प्राणिपालनविषये श्रीमानभङ्ग- श्रीअभयसिंहनृपकथा ज्वलज्ज्वालाजटालाग्नितेज:पुञ्जसदृक्तडित् । यमजिह्वेव भीरूणां, भयकृत् प्रास्फुरत्तराम् ॥ ६३ ॥ अत्रान्तरे धरित्रीशो, विहायसि मिथोऽवदद् । भयविस्मयकृद् भूतमिथुनं पश्यति स्म सः ॥ ६४॥ भूतः प्राह प्रिये! किञ्चित्, त्वत्पुरो वच्च्यनागतम् । साप्युवाच प्रिय! ब्रूहि सावधानास्म्यहं यतः ॥ ६५ ॥ ततो भूतोऽब्रवीद्देवि! जीवसंघातघातकृत् । पापीयानेष भूपालः स्वल्पकाले विनक्ष्यति ॥ ६६॥ खेचर्यप्याह नाथात्र को भविष्यति भूपतिः । भूतोऽभणच्छृणु प्राणप्रिये! भाषेऽविकल्पकम् ॥ ६७॥ योऽवमन्ता नृपस्याज्ञां यो गजं वशयिष्यति । यः कनकवती कष्टाद्रक्षिता भविता स राट् ॥ ६८ ॥ इत्युक्त्वा सहसा भूतमिथुनेऽस्मिंस्तिरोहिते ।। वायुरेणुतमोऽम्भोदविद्युद्वल्ल्यो विलिल्यिरे ॥ ६९ ॥ मानभङ्गोऽपि तद्वाक्यमाकर्ण्य भयविह्वलः । पुरारक्षकमाकार्य, साक्षेपमिदमादिशत् ॥ ७० ॥ रे रे! यः कोऽपि दुष्टात्मा ममाज्ञालोपमाचरेत् । निरारेकं त्वया सोऽङ्गी नेयः कीनाशवश्यताम् ॥ ७१ ।। अथो वसन्तमासस्य संप्रवृत्ते महोत्सवे ।। रात्रावभयसिंहाख्यः, कामधाम जगाम सः ॥ ७२ ।। तत्र प्रेक्षणकं वीक्ष्य, वलितः स्वालयं प्रति । नगरारक्षकेणासौ भाषितो परुषाक्षरम् ॥ ७३ ॥ भद्र! मा गच्छ तिष्ठ त्वमात्मानं च निवेदय । नगरारक्षकेणेति जल्पितोऽपि न स स्थितः ॥ ७४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org