________________
३७८
श्रीदानोपदेशमाला (गा. ९५ )
कालक्षेपासहत्वेन क्रूरत्वेन च भूपतेः । अन्यमांसानवाप्त्यासौ, कान्दिशीक इवाभवत् ॥ ५१ ॥ तस्मिन्नवसरे तस्य बालको दृक्पथं गतः
॥ ५२॥
तं च व्यापाद्य निस्त्रिंशकर्मा मांसमपक्त सः भोजनावसरे राज्ञे तत्सूदेनोपढौकितम् । नृपोऽप्यदंस्तमाहाद्य, कस्येदं पेशलं पलम् ॥ ५३॥ सूपकारोऽपि भूपस्य पुरोऽवादीद्यथास्थितम् । सोऽपि तत्पिशितास्वादलम्पट : सूदमूचिवान् ॥ ५४ ॥ अरे ! प्रत्यहमेकैकं बालं व्यापाद्य मत्कृते । मांसं संस्कृत्य संस्कृत्य परिवेष्यं पुनः पुनः ॥ ५५ ॥ एवं कारयतस्तस्य पौरा विज्ञाय चेष्टितम् । शिशून् संगोपयामासुर्धनानि कृपणा इव ॥ ५६ ॥ कदामुष्य कुकर्त्तव्यनिरतस्य विशांपते ।
पातो भावीति ते चिन्तापरायणधियोऽभवन् ॥ ५७ ॥ एकदा मानभङ्गाख्यश्चेतस्येवमचिन्तयत् । किमस्मद्वंशजो राज्यं, स्वीकर्तोतापरो नरः ॥ ५८॥
अस्मिन्नवसरेऽकाण्डात्कल्पान्तपवनोपमः ।
तरून् परःशतान् भञ्जन्, प्रोल्ललास समीरणः ॥ ५९॥ तस्मादत्युल्लसद्रेणुनिकरैर्दुर्जनैरिव ।
संप्राप्तप्रसरैश्चक्रे मित्रधाम्नोऽपि लोपनम् ॥ ६०॥ स कोऽप्यभूत्तमस्तोमो, येनान्धितविलोचनैः । नीचोन्नतानां स्थानानां विशेषो ज्ञायते न हि ॥ ६१ ॥
तमालतालहिन्तालदलनीलमरीचयः ।
गर्जन्ति स्म तमोव्योम्नि, पर्जन्या दुर्जना इव ॥ ६२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org